________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||३४०||
दीप
अनुक्रम
[ ३६८ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३६८ ] • → “निर्युक्ति: [ ३४०] + भाष्यं [ २७...] + प्रक्षेपं [२... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
८०
तेषामावसथे वीवाहः समजाने, वृत्ते च तस्मिन् प्रचुरं मोदकाद्युद्धरितं ततस्तैरचिन्ति यथैतत्सावुभ्यो दीयतां येन महत्पुण्यमस्मा - कमुपजायते, अथ च केचित्साधवो दूरेऽवतिष्ठन्ते, केचित्पुनः प्रत्यासन्नाः, परमन्तराले नदी विद्यते, ततस्तेऽप्यप्कायविराधनाभयतो नागमिष्यन्ति, आगता अपि च प्रचुरं मोदकादिकमवलोक्य कथ्यमानमपि शुद्धमधाकर्मशङ्कया न ग्रहीष्यन्ति ततो यत्र ग्रामे साधवो निवसन्ति तत्रैव प्रच्छन्नं गृहीत्वा व्रजाम इति, तथैव च कृतं ततो भूयोऽपि चिन्तयन्ति यदि साधूनाहूय दास्यामस्ततोऽशुद्धमाशङ्कय ते न ग्रहीष्यन्ति तस्मात् द्विजादिभ्योऽपि किमपि दद्मः, तब तथा दीयमानमपि यदि साधवो न प्रेक्षिष्यन्ते ततस्तदवस्थैत्र तेषामशुद्धाशङ्का भविष्यति ततो यत्रोच्चारादिकार्यार्थ निर्गताः सन्तः साधवः प्रेक्षन्ते तत्र दद्म इति, एवं च चिन्तयित्वा विवक्षिते कस्मि चित्प्रदेशे कस्यचिदेवकुलस्य वहिर्भागे द्विजादिभ्यः स्तोकं स्तोकं दातुमारब्धं तत उधारादिकार्यार्थं विनिर्गताः केचन साधवो दृष्टाः, ततस्ते निमन्त्रिता यथा भोः ! साधवः ! अस्माकमुद्धरितं मोदकादि मचुरमवतिष्ठते ततो यदि युष्माकं किमप्युपकरोति तर्हि तत्पतिगृह्यतामिति, साधवोऽपि शुद्धमित्यवगम्य प्रत्यगृह्णन, तैश्च साधुभिः शेषाणामपि साधूनामुपादेखि यथाऽमुकस्मिन् प्रदेशे प्रचुरमेषणीयमशनादि लभ्यते, तवस्तेऽपि तद्ग्रहणाय समाजग्मुः, तत्र चैके श्रावकाः प्रचुरं मोदकादिकं प्रयच्छन्ति, अन्ये च मातृस्थानतो निवारव्यन्ति यथैतावद्दीयतां माऽधिकं शेषमस्माकं भोजनाय भविष्यति, अन्ये पुनस्तानेव निवारयतः प्रतिषेधयन्ति - पथा न कोऽप्यस्माकं भोक्ष्यते, सर्वेऽपि प्रायो भुक्ताः, ततः स्तोकमात्रेण किञ्चिदुद्धरितेन प्रयोजनं, तस्मायथेच्छं साधुभ्यो दीयतामिति । साधवश्च ये नमस्कारसहित प्रत्याख्यानास्ते भुक्ताः, ये च पौरुपी प्रत्याख्यानास्ते भुजाना वर्त्तन्ते ये चाजीर्णवन्तः पूर्वार्द्धादि प्रतीक्षमाणा वर्त्तन्ते ते नाद्यापि भुञ्जते, श्रावकाश चिन्तयामासुः - पथेदानीं साधवो भुक्ता भविष्यन्ति ततो वन्दित्वा निजस्थानं व्रजाम इति, एवं चिन्तयित्वा
For Penal Praise Only
~218~
wor