________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३२५] » “नियुक्ति: [२९७] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२९७||
भाषणेतिकृत्वा ततः स्थानाद्विनिर्जगाम, निर्गते च तस्मिन् गृहीतेन भक्तपानेन सजातविप्रियेवावतिष्ठते, अान्तरे चरणकरणालसोऽन्यस्त
स्मिन् गृहे साधुभिक्षार्थमागतः, ततस्तस्मै सा भिक्षा तया दत्ता, गृहीतायां च भिक्षायां स साधुः पृष्टः-यथा भगवन् ! इदानीमेव || साधुरीदशस्ताहशो वाऽत्र समागतः, परं तेन भिक्षा न गृहीता, त्वया गृहीबा, तत्र कि कारणं, ततः स पेहलौकिक भिक्षालाभमात्रा-| दिकं पारलौकिकं धर्म यथाक्रममल्पगुणं बहुगुणं च विचिन्त्येमं लोक-लोकात् लभ्यं भिक्षामात्रादिकं परित्यज्योक्तवान् यथा नीचद्वारे गृहे साधव एषणासमितिसमिता भिक्षां नेच्छन्ति, तत्रान्धकारमावत एपणाशुद्धचभावात् , सोऽपि च भगवान् साधुरेपणासमितस्ततो न गृहीतवानिति, ययप्युक्तं-किं कारणं त्वया गृहीता ? इति, तत्राई लिङ्गमात्रोपनीची, न साधुगुणयुक्तः, ततः साधूनां गुणानेषणांच यथाऽऽगम कथितवान् , ततः सा स्वचेतसि चिन्तयामास-अहो ! जगति निजदोषप्रकटनं परगुणोत्कीचनं चातिदुष्कर, तदप्येतेन कृतमिति तस्मिन्नतिशयेन भक्तिं कृतवती, विपुलं च भक्तपानं तिप्पइ' इति तेपते क्षरति ददाति स्मेति भावार्थः, गते च तस्मिन्नन्यः कोऽप्यगणितदीर्घसंसारपरिभ्रमणभयो निद्धमा साधुराजगाम, सोऽपि भिक्षां दत्वा तथैव पृष्टः, ततः स पापीयानुक्तवान्-रते इत्थंभूताः 'कुक्कय्या ' मायया चरन्ति, ततस्त्वदीयचित्तावर्जनार्थ तेन मातृस्थानतो न भिक्षा गृहीता, यावता न तत्र कश्चिदोषः, ईदृशानि च मातृस्थानबहुलानि व्रतान्यस्माभिरपि पूर्व चीर्णानि, परमिदानी चिन्तित-कि मातृस्थानकरणेनेति न मायां कुर्मः, ततः सा चिन्तितवती-अहो ! अयं निर्द्धमा महापापीयान् यस्तादृशमपि सार्बु निन्दतीति विसर्जितः । इत्यंभूता च भक्तिपरवशगा साधुदानाय पादुष्करणमपि कुयोंदिति प्रादुष्करणसम्भवः । सम्पति तदेव पादुकरणं गाथाद्वपेनाह
पाओकरणं दुविहं पागडकरणं पगासकरणं च । पागड संकामण कुड्डदारपाए य छिन्ने व ॥२९८ ॥
दीप
अनुक्रम [३२५]
~198~