________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२३३] » “नियुक्ति: [२११] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२११||
एगंतमवक्कमणं जइ साहू इज्ज होज तिन्नोमि । तणुकोटुंमि अमुच्छा भुमि य केवलं नाणं ॥ २११ ॥
व्याख्या-पोतनपुरं नाम नगरं, तत्र पश्चभिः साधुशतैः परितृता यथागमं विहरन्तो रत्नाकरनामानः सूरयः समाययुः, तस्याच|| साधुपञ्चशल्या मध्ये प्रियङ्कारो नाम क्षपकः, स च मासमासपर्यन्ते पारणकं विदधाति, ततो मासक्षपणपर्यन्ते मा कोऽपि मदीयं पारणकम-1181 वबुध्याधाकादिकं कार्षीदित्यज्ञात एव प्रत्यासने ग्रामे पारणार्थ बजामीति चेतसि विचिन्त्य प्रत्यासने कचिद् ग्रामे जगाम । तत्र च
यशोमतिनाप श्राविका, तया च तस्य लपकस्य मासक्षपणकं पारणकदिनं च जनपरम्परया श्रुतं, ततस्तया तस्मिन् पारणकदिने कदाचि-18 सदद्य स क्षपकोऽत्र पारणककरणाय समागच्छेदितिबुद्धया परमभक्तिवशतो विशिष्टशालितण्डुलैः पायसमपच्यत, घृतगुडादीनि चोपबृंह-18
कद्रव्याणि प्रत्यासन्नीकृतानि, ततो मा साधुः पायसमुत्तमं द्रव्यमितिकृत्वाऽऽधाकर्मशङ्का काषीदिति मातृस्थानतो बटादिपत्रः कुतेषु । शरावाकारेषु भाजनेषु डिम्भयोग्या स्तोका स्तोका रेयी प्रक्षिप्ता, भणिताश्च डिम्भा यथा रे बालकाः! यदा क्षपकः साधुरीदृशस्तादृशो वा समायाति तदा यूयं भणत-हे अम्ब ! प्रभूताऽस्माकं क्षरेयी परिवेषिता ततो न शक्नुमो भोक्तम्, एवं चोक्तेऽई युष्पानिर्भसैयिष्यामि,
ततो यूयं भणत-किदिने दिने पायसमपस्क्रियते !, एवं च बालकेषु शिक्षितेषु तस्मिन्नेव प्रस्तावे स क्षपको भिक्षामठन् कथमपि तस्या || एव गृहे प्रथमतो जगाम, ततः सा यशोमतिरन्तःसमुल्लसत्परमभक्तिर्मा साधो काऽपि शङ्कन भूदिति बहिरादरमकुवेती यथास्वभाव
मवतिष्ठते, बालकाश्च यथाशिक्षितं भणितुं प्रवृत्ताः, तथैव च तया निर्भत्सिताः, ततः सरुवानादरपरया क्षपकोऽपि तया चभणे, यथाऽमी | मत्ता बालकाः पायसमपि नैतेभ्यो रोचते, ततो यदि युष्मभ्यमपि रोचते तार्ह गृहीत क्षौरेयीं नो चेन बजतेति, तत एवमुक्ते स क्षपकसाधुनिःशड्रो भूत्वा पायसं प्रतिग्रहीतुमुद्यतः, सापि परमभक्तिमुद्रहन्ती परिपूर्णभाजनभरणं पापसं घृतगुडादिकं च दत्तवती, साधुव
दीप
अनुक्रम [२३३]
~160