________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [२०५] » “नियुक्ति: [१८३] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१८३||
दीप
कक०००००००००००००००००००००००००००
आणाइणो य दोसा गहणे जं भणियमह इमे ते उ । आणाभंगऽणवत्था मिच्छत्त विराहणा चेव ॥ १८३ ॥
व्याख्या-यदुक्तम् आधाकम्पियनामे ' त्यादिमूलद्वारगाथायामाधाकर्मग्रहणे 'आज्ञादयः' आज्ञाभङ्गादयो दोषाः ते इमे, वधया-आज्ञाभङ्गोऽनवस्था मिथ्यात्वं विराधना च ।। तत्र प्रथमत आज्ञाभङ्गदोपं भावयति| आणं सवजिणाणं गिण्हंतो तं अइक्कमइ लुडो । आणं च अइकमंतो कस्साएसा कुणइ सेसं ? ॥ १८ ॥
__व्याख्या-तिद्' आधाकमिकमशनादिकं सुब्धः सन् गृहानः सर्वेषामपि जिनानामाज्ञामतिकामति, जिना हि सर्वेऽप्येवदेव ब्रुवन्ति स्म-यदुत मा गृहीत मुमुक्षयो ! भिक्षव आधाकम्मिका भिक्षामिति, ततस्तदाददानो जिनाज्ञामतिकामति, तां चातिक्रामन् कस्य नाम ! आदेशाद्-आज्ञायाः ‘शेष केशुश्मश्रुलुश्चनभूशयनमलिनवासोधारणपत्युपेक्षणाधनुष्ठानं करोति !, न कस्यापीति भावः । सवेस्यापि सर्वज्ञाऽऽज्ञाभङ्गकारिणोऽनुष्ठानस्य नैष्फल्यात् ।। अनवस्थादोपं भावयति
एकेण कयमकजं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर वोच्छेओ संजमतवाणं ॥ १८५॥ ____ व्याख्या-इह प्रायः सर्वेऽपि प्राणिनः कर्मगुरुतया दृष्टमात्रमुखाभिलाषिणो न दीर्घमुखदर्शिनः तत एकेनापि साधुना यदाऽऽधाकर्मपरिभोगादिलक्षणमकार्यमासेव्यते तदा तत्मत्ययात् तेनापि साधुना तत्त्वं विदुषाऽपि सेवितमाधाकर्म ततो वयमपि किं न सेविप्यामहे । इत्येवं तमालम्बनीकृल्यान्योऽप्यासेवते तमप्यालम्ब्यान्यः सेवते, इत्येवं सातबहुलानां प्राणिनां परम्परया सर्वथा व्यवच्छेदः प्रामोति संयमतपसां, तयवच्छेदे च तीर्थव्यवच्छेदो, यश्च भगवतीर्थविलोपकारी स महाऽऽयातनाभागित्यनवस्थादोषभयान कदाचनाप्याधाकम्मे सेवनीयं ।। मिथ्यात्वदोष भावयति
अनुक्रम [२०५]
RELIGuninternational
~148~