________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||१४९||
दीप
अनुक्रम [१७१]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः)
• →
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
मूलं [ १७१] “निर्युक्तिः [ १४९] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
Education T
नाम्, अभिग्रहेण साधर्मिका न प्रवचनेन, निवतीर्थकर प्रत्येकबुद्धाः, एतेषां चार्याय कृतं कल्पते, प्रवचनतः साधर्मिका अभिग्रहतश्च साधवः श्रावकाश्च समानाभिग्रहाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनों, न प्रवचनतो नाप्यभिग्रहतः तीर्थकर प्रत्येकयुद्ध - निहवा विसदृशाभिग्रहकलिता निरभिग्रहा वा तेषामर्थाय कृतं कल्पते, 'एवं पवयणभावण 'ति एवं पूर्वोक्तेन प्रकारेण प्रवचनभावनेतिप्रवचनभावनाचतुर्भङ्गिका भावनीया, तद्यथा- प्रवचनतः साधर्मिका न भावनातः साधवः श्रावका वा विसदृशभावनाकाः, अत्रापि श्रावकाणामर्थाय कृतं कल्पते न साधूनां भावनातः साधर्मिका न प्रवचनतः, निवतीर्थकरमत्येकबुद्धास्तेषामर्थाय कृतं कल्पते, प्रवचनतः | साधर्मिका भावनातञ्च साधवः श्रावकाच समानभावना काः, तत्र भावकाणामर्थाय कृतं कल्पते न साधूनां न प्रवचनतो नापि भावनातः तीर्थकरमत्येकबुद्धनिवा विसदृशभावनाकाः, एतेषामर्थाय कृतं कल्पते, तदेवमुक्तानि प्रवचनाश्रितानां पण्णां चतुर्भङ्गिकानामुदाहरणानि, 'एत्तो सेसाण वोच्छामि'त्ति इत ऊर्ध्वं शेषाणां चतुर्भङ्गिकाणामुदाहरणानि वक्ष्ये । प्रतिज्ञातमेवातिदेशेन निर्वाहयति---
लिंगाई हिवि एवं एक्केकेणं तु उवरिमा नेया । जेऽनन्ने उवरिला ते मोतुं सेसए एवं ॥ १५० ॥
व्याख्या--' लिङ्गाईहिवि ' इत्यत्र सप्तम्यर्थे तृतीया ततोऽयमर्थ:-एवं-पूर्वोक्तेन प्रकारेण लिङ्गादिष्वपि - लिङ्गदर्शनप्रभृतिष्वपि पदेषु एकैकेन लिङ्गादिना पदेन 'उपरितनानि ' दर्शनज्ञानप्रभृतीनि पदानि नयेत् किमुक्तं भवति ? - लिङ्गदर्शनप्रभृतिषु पदेषु दर्शनज्ञानादिभिः पदैः सह याश्चतुर्भङ्गिकास्ताः पूर्वोक्तानुसारेणोदाहरेत्, अतीवेदं सङ्क्षिप्ततरमुक्तम्, अतो न्यत्रेण विवक्षुरिदमाह– 'जेऽनन्ने' इत्यादि, ये अनन्ये- उदाहरणापेक्षया अन्यादृशा न भवन्ति भङ्गाः तान्मुक्त्वा शेषकान् भङ्गकान् एवं वक्ष्यमाणप्रकारेण जानीत, इयमत्र भावना-इह लिङ्गदर्शनयोर्ये चत्वारो भङ्गाः सोदाहरणा वक्ष्यन्ते - तादृशा एवं प्राय उदाहरणापेक्षया किङ्गज्ञानलिङ्ग
For Peralata Use Only
~ 124~