________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||१४५||
दीप
अनुक्रम [१६७ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १६७ ] “निर्युक्ति: [ १४५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
• →
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
न्यानां च विभाषा कृता तथा क्षेत्रे काले च विभाषणं ज्ञातव्यं तत्र 'क्षेत्र' सौराष्ट्रादिकं 'कालो ' दिनपौरुष्यादिकः, तत्र क्षेत्रविषये | विभाषा एवं यदि सौराष्ट्र देशोत्पनेभ्यः पापण्डिभ्यो भया दातव्यमिति सङ्कल्पः तदा सौराष्ट्र देशोत्पन्नस्य साधोर्न कल्पते, सौराष्ट्रदेशोत्पन्नत्वेन तस्यापि सङ्कल्पविषयीकरणात्, शेषदेशोत्पन्नानां तु कल्पते, तेषां सङ्कल्पविषयीकरणाभावात्, यदि पुनः सौराष्ट्र देशोत्पन्नेभ्यः पापष्टिभ्यः सरजस्केभ्यो यदिवा सौगतेभ्यो यद्वा साधुव्यतिरेकेण सर्वपापण्डिभ्यो दास्यामीति सङ्कल्पः तदा सौराष्ट्र देशोत्पन्नस्यापि साधोः कल्पते, तस्य सङ्कल्पाकोडीकरणात् एवं श्रमणेष्वपि सामान्यतः सङ्कल्पितेषु न कल्पते, साधुव्यतिरेकेण तु सङ्कल्पितेषु कल्पते, तथा गृागृदिषु सामान्यतः सौराष्ट्रदेशोत्पन्नत्वेन सङ्कल्पितेषु न कल्पते, केवलेषु तु गृहिषु कल्पते, निर्ग्रन्थेषु तु सौराष्ट्र देशोत्पन्नेष्वसौराष्ट्र देशो* त्पन्नेषु वा संकल्पितेषु सौराष्ट्रदेशोत्पन्नानामन्यदेशोत्पन्नानां वा सर्वथा न कल्पते, तदेवं क्षेत्रसाधर्मिके विभाषा भाविता, एवं कालसाधर्मिकेऽपि भावनीया, यथा विवक्षितदिनजातेभ्यः पाषण्डिभ्यो मया दातव्यमिति सङ्कल्पिते तस्यापि तद्दिनजातस्य साधोर्न कल्पते, तस्यापि ॐ तद्दिनजातत्वेन सङ्कल्पविषयीकरणातू, शेषदिनजातानां तु कल्पते सङ्कल्पविषयीकरणाभावात् इत्यादि सबै पूर्वोक्तानुसारेण भावनीयं, प्रवचनादिपदसप्तके पुनरेवं पूर्वाचार्यव्याख्या - प्रवचन लिङ्गदर्शनज्ञानचारित्राभिग्रह भावनारूपेषु सप्तसु पदेषु द्विसंयोगभङ्गा एकविंशतिः, तद्यथा प्रवचनस्य लिङ्गेन सहैको, दर्शनेन सह द्वितीयो, ज्ञानेन सह तृतीयः एवं यावद्भावनया सह षष्ठ इति षद् भङ्गाः, एवं लिङ्गस्य दर्शनादिभिः सह पञ्च, दर्शनस्य ज्ञानादिभिः सह चत्वारः, ज्ञानस्य चारित्रादिभिः सह त्रयः, चारित्रस्याभिग्रह भावनाभ्यां दौ, अभिग्रहस्य भावनया सहेक इत्येकविंशतिः, एतेषु चैकविंशतिसङ्ख्यैषु भङ्गेषु प्रत्येकमेकैका चतुर्भङ्गिका, तद्यथा- प्रवचनतः साधर्मिको न लिङ्गतः, लिङ्गतः साधर्मिको न प्रवचनतः, प्रवचनतः साधर्मिको वितथ, न मवचनतो न लिङ्गतथ, शेषेषु भङ्गेषु यथास्थानं चतुर्भङ्गिका दर्शयिष्यते । तत्र प्रथमचतुर्भङ्गिकाया आद्यभङ्गद्वयोदाहरणमुपदर्शयति-
For Parts Only
~ 120 ~