________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१४४||
दीप
अनुक्रम [१६६ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ १६६ ]
• →
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
“निर्युक्तिः [ १४४] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्यु - तेर्मळ गियावृत्तिः
॥५४॥
व्याख्या - इह कोऽपि गृही गृहीतप्रवज्यस्य मृतस्य जीवतो वा पित्रादेः स्नेहवशात् प्रतिकृतिं कारयित्वा तत्पुरतो ढौकनाथ वलिं निष्पादयति, तन्निष्पादनं च द्विधा, तयथा - निश्रया अनिश्रया च तत्र ये रजोहरणादिवेषधारिणो मत्पितृतुल्यास्तेभ्यो दास्यामीति सङ्कल्प्य निष्पादयति तदा तद्बलिनिष्पादनं निश्राकृतमुच्यते, यदा त्वेवंविधः सङ्कल्पो न भवति, किन्त्वेवमेव ढौकनाय बलिं निष्पादयति तदा तद्बलिनिष्पादनमनिश्राकृतमुच्यते, तथा चाह-'नीसमनीसा व कटं' इह प्रथमा तृतीयार्थे वेदितव्या, ततोऽयमर्थः --- निश्रयाऽनिश्रया वा यत्कृतं - निष्पादितं भक्तादिस्थापनासाधर्मिकविषये तत्र विभाषा कर्त्तव्या, यदि निश्राकृतं तदपि च ढौकितमढौकितं वा तर्हि न * कल्पते, अनिश्राकृतं तु ढौकितमढौकितं वा कल्पते, परं तत्रापि प्रवृत्तिदोषप्रसङ्ग इति पूर्वसूरयो निषेधमाचक्षते तथा 'द्रव्ये ' द्रव्यसाधर्मिकविषये यन्मृततनुभक्तं- तत्कालं मृतस्य साधोर्या तनुस्तस्याः पुरतो ढौकनाय यदशनादि तत्पुत्रादिना कृतं तन्मृततनुभक्तं तदपि द्विधा- निश्राकृतमनिश्राकृतं च तत्र साधुभ्यो दास्यामीति सङ्कल्प्य कृतं निश्राकृतमितरत्तु स्वपित्रादिभक्तिमात्रकृतमनिश्राकृतं, तत्र यन्निश्राकृतं तन्निषेधयति-नैव कल्पते, इतरच्चनिश्राकृतं कल्पते, किन्तु तद्ग्रहणे लोके जुगुप्सा-निन्दा प्रवर्त्तते यथा अहो ! अमी भिक्षवो निःशूका मृततनुभक्तमपि न परिहरन्तीति ततो विवर्जयन्ति तत्साधवः ।। सम्मति क्षेत्रकालसाधर्मिकावधिकृत्यातिदेशेन कल्प्या कल्प्यविधिमाहपासंडियसमणाणं गिहिनिग्गंथाण चेव उ विभासा । जह नामंमि तव य खेते काले य नायव्वं ॥ १४५ ॥ व्याख्या – यथा ' नाम्नि ' नामसाधर्मिकविषये पाषण्डिनां श्रमणानां ' गिहित्ति' सूचनात्सूत्रमिति न्यायाद गृह्मगृहिणां निर्ग्र
१ अन्यत्र प्रसिद्धस्यान्यत्र कथनमतिदेशः ।
anon
For Parts Only
~ 119 ~
आधाकर्मणि स्थाप
नाद्रव्यसा
॥ ५४ ॥
org