________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [१६५] » “नियुक्ति: [१४३] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१४३||
नियतसङ्कल्पविषयास्त्वमिश्रा यथा यावन्तः सरजस्काः पाखण्डिनो यदिवा सौगता देवदत्ता इत्यादि, तत्र यावन्तो देवदत्ताः पाखण्डिन इति मिश्रसङ्कल्पे कृते न कल्पते पाखण्डिदेवदत्तशब्दाभ्यां देवदत्ताख्यस्यापि साधोः सङ्कल्पविषयीकृतत्वात् , यदा पुनरमियः सङ्कल्पो
यथा यावन्तः सरजस्काः पाखण्डिनो देवदत्ता यदिवा यावन्तः सौगता देवदत्ता या साधुव्यतिरेकेण सर्वेऽपि पाखण्डिनो देवदत्ताहस्तेभ्यो दास्यामीति, तदा देवदत्ताख्यस्य साधोः कल्पते, तस्य सङ्कल्पविषयीकरणाभावात् , यथा च पाखण्डिषु मिश्रामिश्रेषु विभाषा
कृता तथा श्रमणेष्वपि मिश्रामिश्रेषु कर्तव्या, श्रमणा हि शाक्यादयोऽपि भण्यन्ते, यतो वक्ष्यति-निग्गंथसकतावसगेरुयआजीव पञ्चद्दा समणा'ततो यदेवं मिश्रा सङ्कल्पो यावन्तः श्रमणा देवदत्ताख्यास्तेभ्यो दास्यामीति तदा देवदत्वाख्यस्य साधोर्न कल्पते, तस्य श्रमणदेवदत्तशब्दाभ्यां सङ्कल्पविषयीकृतत्वात् , यदा पुनरेवममिश्रः सङ्कल्पो याचन्तः शाक्याः श्रमगा यदिवा आजीविका देवदत्ता यदा-साधुव्यतिरेकेण सर्वं श्रमणा देवदत्तास्तेभ्यो दास्यामीति तदा कल्पते, तस्य विवक्षितसङ्कल्पविषयीकरणाभावात् , संयतानां तु निम्रन्थानां विसदृशनानामपि सङ्कल्पे कृते देवदत्ताख्यादेः साधोन कल्पते, किमुक्तं भवति ?-चैत्रनाम्नोऽपि संयतस्योद्देशेन कृतं । देवदत्ताख्यस्य साधोने कल्पते, तथा भगवदाज्ञाविजूंभणात, यदा पुनस्तीर्थकरपत्येकबुद्धसङ्कल्पनेन कृतं तदा कल्पते, तीर्थकरप्रत्येक-। बुद्धानां सङ्घातीतत्वेन सडमध्यवर्तिभिः साधुभिः सह साधर्मिकत्वाभावात् , ' संजयाण उ विसरिसनामाणविन कप्पे' इति वचनाचार्थापत्त्या यावन्तो देवदत्ता इत्यादी विसदृशचैत्रादिनाम्नां साधूनां कल्पत एवेति प्रतिपादितं द्रष्टव्यं । तदेवमुक्तो नामसाधर्मिकमधिकृत्य कलप्याकल्प्यविधिः, सम्पति स्थापनाद्रव्यसाधर्मिकावधिकृत्य तमाह---
नीसमनीसा व कडं ठयणासाहम्मियम्मि उ विभासा । दवे मयतणुभत्तं न तं तु कुच्छा विवज्जेज्जा ॥१४॥
दीप
अनुक्रम [१६५]
~118~