________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१२०||
दीप
अनुक्रम [१४२ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [१४२ ] ● → “निर्युक्तिः [१२०] + भाष्यं [ २२...]
+ प्रक्षेपं
40
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२] मूलसूत्र - [०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
पिण्डनिर्युक्तेर्मलयगि याहृति:
॥ ४७ ॥
प्रतिषेवर्ण यतिभिर्न कर्त्तव्यम, इह चौर स्थानीया आधाकर्म्मनिमन्त्रिणः साधवो गोमांसभक्षकचौरपथिकस्थानीयाः स्वयंगृहीत निमन्त्रिताधाकर्मभोजिनो गोमांसपरिवेषकादिस्थानीया आधाकर्म्मपरिवेषकादयः गोमांसस्थानीयमाधाक पथस्थानीयं मानुषं जन्म कूजकस्थानीयानि कर्माणि मरणस्थानीयं नरकादिप्रपातः ॥ सम्पति प्रतिश्रवणस्य पूर्वोक्तं राजसुतदृष्टान्तं भावयति—
सामत्थण रायसुए पिवहण सहाय तह य तुहिका । तिपि हु पडिसुणणा रण्णा सिहंमि सा नन्थि ॥ १२१ ॥
व्याख्या - गुणसमृद्धं नाम नगरं तत्र महाबलो राजा तस्य शीला नाम देवी, तयोर्विजितसमरो नाम ज्येष्ठः कुमारा, सच राज्यं जिघृक्षुः पितरि दुष्टाशयश्चिन्तयामास यथा ममैप पिता स्थविरोऽपि न म्रियते नूनं दीर्घजीवी सम्भाव्यते ततो निजभटान् सहायीकृत्यैनं मारयामीति, एवं च चिन्तयित्वा निजभटैः समं मन्त्रयितुं प्रावर्तत तत्र केचिदुक्तं वयं ते साहायककारिणोऽपरैरुक्तम्- एवं कुरु, केचित्पुनस्तृष्णीं प्रतिपेदिरे, अपरे पुनश्वेतस्यप्रतिपद्यमानाः सकलमपि तद्वृत्तान्तं राज्ञे निवेदयामासुः, ततो राजा ये साहायकं प्रतिपक्षा ये चैवं कुवित्युक्तवन्तो येऽपि च तूष्णीं तस्थुः तान् सर्वानपि ज्येष्ठं च कुमारं वैवस्वतमुखे प्रतिचिक्षेप, यैस्त्वागत्य निवेदितं ते पूजिताः, गाथाक्षरयोजना त्वियं-' सामत्थणं ' स्वभटैः सह पर्यालोचनं, 'राजहुए चि तृतीयार्थे सप्तमी, ततोऽयमर्थः- राजमुतेन कर्तुमारब्धमिति शेषः, तत्र केचिदुक्तं पितॄहनने कर्त्तव्ये तव सहाया वयमिति ' तथा ' इति समुचये चशब्दोऽनुक्तसमुच्चयार्थः स च केचिदेवं कुर्विति भाषितवन्त इति समुचिनोति, केचित्पुनस्तूष्णीका जाता:- पौनेनावस्थिताः, एतेषां च त्रयाणामपि प्रतिश्रवणदोषः, यैस्तु राज्ञे शिष्टं तेषां 'सा' तत् प्रतिश्रवणं नास्ति । अमुमेवार्थ दार्शन्तिके योजयति
भुंज न भुंजे भुंजसु तइओ तुसिणीए भुंजए पढमो । तिव्हंपि हु पडिसुणणा पडिसेहंतस्स सा नत्थि ॥ १२२ ॥
Education Internation
For Park Use Only
~ 105~
प्रतिषेवणा
यां स्तेनोदाहरणं
॥ ४७ ॥