SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) प्रत गाथांक नि/भा/प्र ||११९|| दीप अनुक्रम [१४१ ] [भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं +निर्युक्तिः+वृत्तिः) मूलं [ १४१] → “निर्युक्तिः [११९] + भाष्यं [ २२... ] + प्रक्षेपं [[" ← पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः गोणीहरण सभूमी नेऊ गोणिओ पहे भक्खे । निव्विसया परिवेसण ठियात्रि ते कूविया घत्थे ॥ ११९ ॥ व्याख्या - इद्द गाथाक्षरयोजना सुगमस्वात्स्वयमेव कर्त्तव्या केवलं 'निर्विशका उपभोक्तारो, निष्पूर्वस्य विशेरुपभोगे वर्त्तमानत्वात् तथा चोक्तम्- “निर्वेश उपभोगः स्यात्', 'कूजकाः व्याहारकारिणः, गवां व्यावर्त्तका इत्यर्थः, 'घत्थे' इति गृहीताः, कथानकमुच्यते-इह कचिद्रामे बहवो दस्यवः, ते चान्यदा कुतश्चित्सन्निवेशाद्रा अपहृत्य निजग्रामाभिमुखं प्रचलिताः, गच्छतां च तेषामपान्तराले केऽप्यन्ये दस्यवः पथिका मिलितवन्तः, ततस्तेऽपि तैः सार्द्धं ब्रजन्ति, वजन्तत्र स्वदेशं प्राप्ताः, ततः प्राप्तः स्वदेश इति निर्भया भोजनवेलायां कतिपया गा विनाश्य भोजनाय तन्मांस पक्कुमारब्धवन्तः अस्मिंश्व प्रस्तावे केऽप्यन्येऽपि पथिकाः समाययुः, ततस्तेऽपि तैर्दस्युभिभोजनाय निमन्त्रिताः, ततो गोमांसे पके केऽपि चौराः पथिकाश भोक्तुं प्रवृत्ताः केऽपि गोमांसभक्षणं बहुपापमिति परिभाव्य न भोजनाय प्रवृत्ताः केवलमन्येभ्यः परिवेषणं विदधति, अत्रान्तरे च निष्पत्या कारनिशितकरवाळभीषणमूर्तयः समाययुः कूजकाः, ततस्तैः सर्वेऽपि भोक्तारः परिवेषकाच परिगृहीताः, तत्र ये पथिका अपान्तराले मिलितास्ते पथिका वयमिति ब्रुवाणा अपि चौरोपनीतगोमांसभक्षणपरिवेषणपवृत्ततया चौवदुष्टा इति गृहीता विनाशिताय || अनुमेवार्थ दार्शन्ति के योजयति जेऽविय परिवेसंती, भायणाणि घरंति य । तेऽवि बज्झति तिब्वेण, कम्मुणा किमु भोइणो ? ॥ १२० ॥ व्याख्या - इह चौराणां येऽपान्तराले भोजनवेलायां वा ये मिलिताः पथिकास्तत्रापि ये परिवेषमात्रं भाजनधारणमात्रं वा कृतवन्तस्तेऽपि कूजकैरागत्य बद्धा विनाशिताथ, एवमिहापि ये साधवोऽन्येभ्यः साधुभ्यः आधाकर्म्म परिवेषयन्ति वा घरन्ति तेऽपि 'तीवेण दुस्सहविपाकेन नरकादिगतिहेतुना कर्म्मणा वध्यन्ते, किं पुनराधाकर्म्मभोजिनः ? । तत एतदोषभयात्परिवेषणादिमात्रमध्याधाकर्मणः Education International For Pale Only ~ 104~ waryra
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy