SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥१७१॥ दीप अनुक्रम [ ४७५ ] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४७५ ] -- “निर्युक्तिः [२८०...] + भाष्यं [ १७९] + प्रक्षेपं [२३... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः FO श्रीभोषनिर्युतिः द्रोणीया वृत्तिः ॥११४॥ Jan Eucation स्थानं-ऊर्द्धस्थानं कायोत्सर्गादि, आदिग्रहणान्निषीदनस्थानं त्वग्वर्त्तनास्थानं च गृह्यते, तत्स्थानादि यत्र चेतयते' 'चिती प्रेक्षादिसंयसंज्ञाने' जानाति चेष्टते करोति अभिलषतीत्यर्थः, तत्र पूर्व-प्रथमं प्रत्युपेक्ष्य - चक्षुषा निरीक्ष्य ततश्चेतयते स्थानं कायोत्सर्गादि, आदिग्रहणान्निषीदनस्थानं त्वग्वर्त्तनास्थानं च उक्तः प्रेक्षासंयमः, इदानीं उपेक्षासंयम उच्यते सा चोपेक्षा द्विविधा, कथं ? -संयतव्यापारोपेक्षा, गृहस्थव्यापारोपेक्षा च तत्र यथासवं संयतस्व चोदनविषया व्यापारोपेक्षा, गृहस्थस्य चाचीदनविषया व्यापारोपेक्षा, एतदुक्तं भवति-साधुं विषीदन्तं दृष्ट्वा संयमव्यापारेषु चोदयतः संयतव्यापारोपेक्षा, उपेक्षाशब्द श्चात्र 'ईश दर्शने' उप-सामीप्येनेक्षा उपेक्षा, तथा गृहस्थस्य व्यापारोपेक्षा, गृहस्थमधिकरणव्यापारेषु प्रवृत्तं दृष्ट्वाऽचोदयतो गृहस्थव्यापारोपेक्षा उच्यते, उपेक्षाशन्दश्चात्रावधीरणायां वर्त्तत इति । इदानीं 'परिद्वावेत्तावि संजमो' ति व्याख्यायते, तत्राह-उबगरणं अइरेगं पाणाई वाडवह संजमणं । सागारिएऽपमज्जण संजम सेसे पमज्जणया ॥ १७२ ॥ ( भा० ) 'उपकरणं' खादि यदतिरिक्तं गृहीतं तथा 'पाणाई वा' तथा पानकादि वा यदतिरिक्तं गृहीतं तद् 'अवहट्ट'त्ति परित्यम्य, किं १ - 'संजमणा' संयमो भवतीति, मादिग्रहणाद्भकं वाऽतिरिक्तं परित्यज्य संयमः । अथेदानी "पमजिसावि संजमी" व्याख्यायते - 'सागारिएऽपमज्जण संजमो' सागारिकानामग्रतो यत्पादाप्रमार्जनमसावेव संयमः, 'सेसे पमाणय'त्ति 'शेषे' सागारिकाद्यभावे प्रमार्जनेनैव संयमः । इदानीं योगत्रयसंयमप्रतिपादनायाहजोगलिग भणिअं समत्त पडिलेहणाए सज्झाओ। चरिमाए पोरिसीए पडिलेह तआ उ पायदुगं ॥ १७३॥ (भा० ) योगत्रयं पूर्वमेव व्याख्यातं, “मणमाईतिविहकरणमा उत्तो" इत्यस्मिन् ग्रन्थे, अत्रापि तथैव द्रष्टव्यं । उक्तः सप्तदश For Parts Only ~239~ मा० भा. १६९-१७३ ॥११४॥
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy