________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||१२०||
दीप
अनुक्रम
[३७३]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [३७३ ] ●→ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
“निर्युक्ति: [२३६...] + भाष्यं [ १२० ] +
प्रक्षेपं [१६...
←
श्री ओघनिर्युक्तिः द्रोणीया
वृत्तिः
॥ ९५ ॥
भिक्षामटन्तः प्रतिक्रमणावसाने वा कथयन्ति दानादीनि कुलानि । 'असई अ चेइयाणं' यदा पुनस्तत्र श्रावककुलेषु चैत्यानि | न सन्ति ततोऽसति चैत्यानां भिक्षामेव हिण्डन्तः कथयन्ति । कानि पुनस्तानि कथयन्तीत्यत आह| दाणे अभिगमसद्धे संमते खलु तदेव मिच्छते । मामाए अचियते कुलाई दायंति गीयत्था ।। १२१ ॥ (भा० ) दानश्राद्धकान् अभिगमश्राद्धः (द्धान् ) अभिनवसम्यक्त्वसाधुः (श्राद्धान्) तथा मिथ्यादृष्टिकुलानि कथयन्ति । शेषं सुगमम् । इदानीं यदि तत्र चैत्यानि न सन्ति उपवासैर्न भिक्षा पर्यटिता तत आवश्यकान्ते क्षेत्रप्रत्युपेक्षकाः कथयन्त्याचार्याय, एतदेवाह| कयजस्सग्गामंतण पुच्छणया अकहिएगयरदोसा । ठवणकुलाण य ठवणा पविसद् गीयत्थसंघाटो || १२२|| (भा०)
आवश्यककायोत्सर्गस्यान्ते 'आमंतण'त्ति आचार्य आमन्त्र्य तान् प्रत्युपेक्षकान् 'पुच्छणय'त्ति पृच्छति, यदुत कान्यत्र स्थापनांकुलानि कानि चेतराणि १, पुनश्च ते पृष्टाः कथयन्ति, 'अकहिएगतरदोस ति क्षेत्रप्रत्युपेक्षकैरकथितेषु कुलेषु सत्सु एकतर:- अन्यतमो दोषः संयमात्मविराधनाजनितः कथिते च सति स्थापनादिकुलानां स्थापना क्रियते । पुनश्च | स्थापनाकुलेषु गीतार्थसङ्गाटकः प्रविशति ॥ गच्छंमि एस कप्पो वासावासे तहेव उडषद्धे । गामागरनिगमेसुं अइसेसी ठावए सही ॥ १२३ ॥ ( भा० )
गच्छे 'एष कल्पः एष विधिरित्यर्थः, यतः स्थापनाकुलानां स्थापना क्रियते, कदा ? - वासावासे तहेव उडुबद्धे' वर्षाकाले शीतोष्णकालयोश्च । केषु पुनरयं नियमः कृतः ? इत्यत आह-गामागरनिगमेसुं' ग्रामः - प्रसिद्धः आकरः- सुवर्णादे
For Parts Only
~ 201~
स्थापनाकुउस्थापनाभा. ११८१२३
॥ ९५ ॥