SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः ) मूलं [६] » "नियुक्ति: [१-२] + भाष्यं [१] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||१|| दीप आहोस्वित्पूर्वस्वभावात्यागेनेति वाच्यम् ?, यदि पूर्वस्वभावत्यागेन ततोऽनित्यत्वप्रसङ्गा, अतादवस्थ्यमनित्यतां ब्रूमः, अथ पूर्वस्वभावात्यागेन, एवं तर्हि न कदाचिदपि तेन द्वितीया क्रिया कर्तव्येति, एवं प्रतिपादितेऽनित्यतावाद्याह-अत एवा-13 स्माकं दर्शने क्त्वाप्रत्ययो घटत इति, एतदप्यचारु, यस्य क्षणिकं वस्तु तस्य कथं क्त्वाप्रत्ययो युज्यते ?, उत्पत्त्यनन्तरं ध्वंसात्, कथमेक एष कर्ता क्रियाद्वयं करोति', येन हि प्राक्तनी क्रिया निष्पादिता सोऽन्य एव, योऽपि चोत्तरां क्रियां करोति सोऽपि चान्य एव, तत एकान्तानित्यवादेऽपि न घटते क्त्वाप्रत्यय इति । अयं तावत्समुदायार्थः, अधुना भाष्य-1 कृदेकैकमवयवं व्याख्यानयति-तत्र 'तत्त्वभेदपर्यायाख्येति पर्यायतो व्याख्यां कुर्वन्निदं गाथासूत्रमाहआहे पिंड समासे संखेवे चेव होंति एगट्ठा । निजुत्तत्ति य अत्था जं बद्धा तेण निजुत्ती ॥१॥(भा०) ओघः पिण्डो भवतीति योगः, पिण्डनं पिण्डः, संघातरूप इत्यर्थः, 'समासे' इति समसनं समासः, 'असु क्षेपणे' सम्-18 एकीभावेनासनं क्षेपणमित्यर्थः, तथा च समासेन सर्व एव विशेषा गृह्यन्ते, ओघः समासो भवतीति योगः, एवं भवतीति । क्रिया सर्वत्र मीलनीया । 'संखेवे' इति संक्षेपणं संक्षेपः सम्-एकीभावेन प्रेरणमित्यर्थः, चशब्द उक्तसमुच्चये, कदाचिदनुतसमुच्चये, एवंशब्दः प्रकारवाचकः, एवमेतेषामपि पिण्डादीनां ये पर्यायास्ते मीलनीया इति । नियुक्तिपदव्याख्यानार्थ माह-निझुत्तत्ति य' इत्यादि, निः-आधिक्ये योजनं युक्तिः, आधिक्येन युक्ता नियुक्ताः अर्यन्त इत्यर्थाः गम्यन्त * इत्यर्थः, ततो निर्युक्ता इति चाऽर्था यद् यस्माद्बद्धास्तेन नियुक्तिरभिधीयते । अथवाऽन्यथा-निश्चयेन युक्ता नियुक्तिरिति चार्थाः यद्रद्धास्तेन नियुक्तिरभिधीयते, इत्ययं गाथार्थः । एकार्थिकप्रतिपादनेन च एकान्तभेदाभेदवादी व्युदस्येते, नैका 'ओघ' एवं 'पिण्ड' शब्दस्य व्याख्या ~20~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy