________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [१] .→ “नियुक्ति: [१-२] + भाष्यं H + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
मङ्गलादि
प्रत गाथांक नि/भा/प्र ||२||
श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥४॥
दीप
नियुक्तिं वक्ष्ये, चरणकरणात्मिकामेवेति गम्यते, यथा मृदोघट करोति मृदात्मकमेव, तद्वदनापीति। अथवा चरणं च तत्करण च २ तस्यानुयोगस्तस्माचरणकरणानुयोगात् नियुक्तिं वक्ष्य इति, तदनेनावयवेनाभिधेयमुक्त, चरणकरणनियुक्तिरभिधेयेति । स्विरूपां नियुक्तिं वक्ष्ये' इत्यत आह 'अल्पाक्षरां' अल्पान्यक्षराणि यस्यां साऽल्पाक्षरा तामल्पाक्षराम् , अथवा क्रियाविशेषणमेतत् , कथं वक्ष्ये । इत्यत आह–'अल्पाक्षर स्तोकाक्षरं वक्ष्ये, न प्रभूताक्षरमित्यर्थः । किमल्पाक्षरमेव !, नेत्याह'महत्थं' महार्थं वक्ष्ये, अथवा महानों यस्याः सा महार्था तां महार्थी वक्ष्ये, तदनेनाभिधेयविशेषणं प्रतिपादितं भवति । 'अल्पाक्षरां महार्थी' इत्यनेन चतुर्भङ्गिका प्रतिपादिता भवति, एकमल्पाक्षरं प्रभूतार्थं भवति १, तथा अन्यत् प्रभूताक्षरम-| पार्थ २, तथा प्रभूताक्षरं प्रभूतार्थ ३, अल्पाक्षरमल्यार्थे ४ चेति । किंनिमित्तं वक्ष्ये ? इत्यत आह-'अनुग्रहार्थ' अनुग्रह-उपकारोऽभिधीयते, अर्थशन्दः प्रयोजनवचनः, तत उपकारप्रयोजनं वक्ष्ये, तदनेन प्रयोजनं प्रतिपादितं द्रष्टव्यम् । केषां वक्ष्ये । इत्यत आह-सुविहितानां शोभनं विहितम्-अनुष्ठानं येषामिति ते सुविहिताः-साधवस्तेषां सुविहितानामनुग्रहार्थमोपनियुक्किं वक्ष्य इति योगः । तदनेन गाथासूत्रेण परोपन्यस्ता हेतवो निराकृता भवन्ति । के च हेतवः', निःसंघम्धत्वादय इति । यश्चार्य क्त्वाप्रत्यय उपन्यस्तस्तेन नित्यानित्यकान्तवादयोरसारता प्रतिपादिता भवति, कथम् ।-न नित्यवादे क्त्वाप्रत्ययो युज्यते न वाऽनित्यवादे, किं तु नित्यानित्यवाद एवायं घटत इति, नित्यवादे तावन्न घटते, एक कृत्वा ह्यपरकरणं क्रमः, क्त्वाप्रत्ययश्च विशिष्टपूर्वार्थोऽभिधीयते, 'समानकर्तृकयोः पूर्वकाले क्त्वें' (पा० ३-४-२१) ति वचनात् , नित्यवादे चामच्युतानुत्पन्नस्थिरैकस्वभावं वस्तु, तच्च किं तावत् पूर्वस्वभावत्यागेन द्वितीयां क्रियां करोति
~19~