________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१] .→ “नियुक्ति: [१-२] + भाष्यं H + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
1-24
-
प्रत गाथांक नि/भा/प्र
1
||२||
दीप
-2-59-982109
चशब्दात्सिद्धनमस्कारः । एवं व्याख्याते सत्याह-किमर्थ सिद्धनमस्कारः पश्चादभिधीयते ?, अपि त्वर्हन्नमस्कारानन्तरं वाच्य इति, अत्रोच्यते, यानि धर्हदादीनि पदानि तेषां सर्वेषामेव सिद्धाः फलभूताः, अतः फलप्रतिपादनार्थ पश्चादुपन्यास इति, अथवाऽर्हन्नमस्कारेणैव सिद्धनमस्कारोऽप्यभिहितः, कारणे कार्योपचारमङ्गीकृत्य, सिद्धत्वस्य कारणभूतत्वादर्हतामित्यलं प्रसङ्गेनेति ॥ १॥ अधुना कृतमङ्गलः सन् संबन्धाभिधेयप्रयोजनत्रयप्रदर्शनार्थ द्वितीयं गाथासूत्रमाह-'ओहेण ' इति, ओघः संक्षेपः समासः सामान्यमित्येकोऽर्थः, तेन ओपेन नियुक्तिं वक्ष्ये इति योगः, तदनेन गाधाखण्डकेन संबन्धः प्रतिपादितः क्रियाऽऽनन्तर्यलक्षणः, तथा च व्यासक्रियायाः समासक्रिया अनन्तरभूता वर्तते, अतः क्रियाऽऽनन्तर्यलक्षणः संबन्धः, एवं कार्यकारणलक्षणोऽपि द्रष्टव्यः-कार्यम्-ओघनिर्युक्त्यर्थपरिज्ञानमनुष्ठानं च कारणं तु बचनरूपापन्ना ओपनियुक्तिरेव, एवं च साध्यसाधनादयोऽपि द्रष्टव्या इति । तुशब्दो विशेषणे, किं विशिनष्टि ?-ओपेन वक्ष्ये, तुशब्दाकिनिद्रिस्तरतोऽपि, “छप्पुरिम" इत्यादि, नियुक्ति वक्ष्य इति-नि:-आधिक्ये योजनं युक्तिः, सूत्रार्थयोर्योगो नित्यव्यवस्थित एवास्ते वाच्यवाचकतयेत्यर्थः, अधिका योजना नियुक्तिरुच्यते, नियता निश्चिता वा योजनेति, ततश्च नियुक्तियुक्तिरित्येवं वक्तव्ये एकस्य युक्तिशब्दस्य लोपं कृत्वा एवमुपन्यासः,यथोष्ट्रमुखी कन्येति । 'चोच्छं' इति वक्ष्ये' अभिधास्य इति यदुक्तं भवति, कुतो वक्ष्ये । इत्यत आह-'चरणकरणानुयोगात्' चर्यत इति चरण-वक्ष्यमाणलक्षणं व्रतादि क्रियत इति करणं-पिण्डविशुख्यादि, चरणं च करणं च चरणकरणे तयोरनुयोगश्चरणकरणानुयोगः, अनुयोजनमनुयोगः अनुकूलो वा | योगोऽनुयोगः, अथवाऽणु-सूत्रं महान्-अर्थः ततो महतोऽर्थस्याणुना सूत्रेण योगोऽनुयोगः, तस्माचरणकरणानुयोगात्।
*SACROCOCALCCCCCCACANCY
अनद्र
पर
urmurary.om
~18~