________________
आगम
(४१ / १)
प्रत
गाथांक नि/भा/प्र
|| २०५ ||
दीप
अनुक्रम [३१४]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [३१४]
+ प्रक्षेपं [१४...
८०
-→→ “निर्युक्ति: [२०५] + भाष्यं [९४... ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Ja Educator
प्रथमं प्रसारयति एवं साधुनाऽप्याकाशे पादौ प्रथममशक्नुवता प्रसारणीयौ, 'अतरंतो 'ति यदा आकाशव्यवस्थिताभ्यां पादाभ्यां न शक्नोति स्थातुं तदा 'पमज्जए भूमि न्ति भुवं प्रमृज्य पादौ स्थापयति ।
संकोए संडास उत्तंतेय कायपडिलेद्दा । दवाईउवओगं णिस्सासनिरंभणालोयं ॥ २०६ ॥
यदा तु पुनः सङ्कोचयति पादौ तदा 'संडास 'ति संदंसं - ऊरुसन्धि प्रमृज्य सङ्कोचयति 'उच्चत्तंते य'त्ति उद्वर्त्तयंश्चासौ साधुः कार्यं प्रमार्जयति, एवमस्य स्वपतो विधिरुक्तः । यदा पुनः कायिकार्थमुत्तिष्ठति स तदा किं करोतीत्याह- 'दवाई - उवओगं' द्रव्यतः क्षेत्रतः कालतो भावतश्चोपयोगं ददाति, तत्र द्रव्यतः कोऽहं प्रव्रजितोऽप्रब्रजितो वा ?, क्षेत्रतः किमु परितलेऽन्यत्र वा १, कालतः किमियं रात्रिर्दिवसो वा १, भावतः कायिकादिना पीडितोऽहं न वेति, एवमुपयोगे दत्तेऽपि यदा निद्रयाऽभिभूयते तदा 'णिस्सासनिरंभण'त्ति 'निःश्वासं निरुणद्धि' नासिकां दृढं गृह्णाति निःश्वासनिरोधार्थ, ततोऽपगतायां निद्रायां 'आलोयं ति आलोकं पश्यति द्वारम् । यतः
दारं जा पडिलेहे तेणभए दोष्णि सावए तिष्णि । जह य चिरं तो दारे अण्णं ठावेत्तु पडिअरइ ॥ २०७ ॥ तदाऽसौ द्वारं यावत् 'प्रत्युपेक्षयन्' प्रमार्जयन् प्रजति, एवमसौ निर्गच्छति, तत्र च यदि स्तेनभयं भवति ततः 'दोणि'त्ति द्वौ साधू निर्गच्छतः तयोरेको द्वारे तिष्ठति अन्यः कायिकां व्युत्सृजति, 'सावए तिण्णि'त्ति श्वापदभये सति त्रयः साधव उत्तिष्ठन्ति तत्रैको द्वारे तिष्ठति अन्यः कायिकां ब्युत्सृजति अन्यस्तत्समीपे रक्षपालस्तिष्ठति । 'जति य चिरं' ति
For Parts Only
~178~
ay org