________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६९६...], भाष्यं [१२१]
96RROSAROKAR
Ma
व्याख्या-यो भवति निषिद्धात्मा-निषिद्धो मूलगुणोत्तरगुणातिचारेभ्यः आत्मा थेनेति समासः, नैषेधिकी 'तस्य' निषिद्धात्मनो 'भावतः' परमार्थतो भवति, न निषिद्धोऽनिषिद्धः उक्तेभ्य एवातिचारेभ्यः तस्य अनिषिद्धस्य-अनुपयुक्तस्यागच्छतः नैपेधिकी, किम् ?-'केवलमेचं हवइ सद्दों' केवलं शब्दमात्रमेव भवति, न भावत इति गाथार्थः । आह-यदि नामैवं तत एकार्थतायाः किमायातमिप्तिा, अच्यते, निषिद्धात्मनो नैषेधिकी भवतीत्युक्त, सच
आवस्सयंमि जुत्तो नियमणिसिद्धोत्ति होइ नायव्वो।
अहवाऽवि णिसिद्धप्पा णियमा आवस्सए जुत्तो॥१२२ ॥ दारं (भाष्यम् ) व्याख्या-'आवश्यके' मूलगुणोत्तरगुणानुष्ठानलक्षणे युक्तः 'नियमनिसिद्धोत्ति होइ नायषो' नियमेन निषिद्धो नियमनिषिद्ध 'इति' एवं भवति ज्ञातव्यः, आवश्यिक्यपि चावश्यकयुक्तस्यैवेत्यत एकार्थतेति । अथवेति प्रकारान्तरदर्शनार्थः, अपिशब्दस्य व्यवहितः सम्बन्धः, निषिद्धात्माऽपि नियमादावश्यके युक्तो यतः अतोऽप्येकार्थतेति, पाठान्तरं वा 'अहवावि [निसिद्धप्पा सिद्धार्ण अंतियं जाईत्ति, अस्थायमर्थः-एवं क्रियाया अभेदेनावश्यकीनषेधिक्योरेकार्थतोका, इह तु कार्याभेदेनो-| च्यते, अथवा निषिद्धात्माऽपि सिद्धानामन्तिक-सामीप्यं 'याति' गच्छति, अपिशब्दावावश्यकयुकोऽपि, अतः कार्याभेदा-16 देकार्थतेति गाथार्थः ।। द्वार ४-५॥ साम्प्रतमापृच्छादिद्वारचतुष्टयमेकगाथयैव प्रतिपादयन्नाहआपुच्छणा उ कजे पुवनिसिडेण होइ पडिपुच्छा । पुष्वगहिएण छंदण णिमंतणा होअगहिएणं ॥ ६९७॥ व्याख्या-आमच्छनमापृच्छा सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । द्वार तथा
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~94~