SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [६९७], भाष्यं [१२२] आवश्यक- यवृत्तिः ॥२६॥ पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कत्तुकामेन 'होति पडिपुच्छत्ति प्रतिपृच्छा कर्तव्या भवति, | पाठान्तरं वा-'पुवनिउत्तेण होइ पडिपुच्छा पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा। कर्तव्या भवति-अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारं विभागः१ तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्यः कर्त्तव्या-इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । द्वारं ८। तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाथानयामीति गाथार्थ द्वार ९॥ इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते-सा चोपसम्पद् द्विधा भवति-गृहस्थोपसम्पत्साधूपसम्पच्च, तत्रास्ता तावद् गृहस्थोपसम्पत्, साधूपसम्पत्पतिपाद्यते-सा च त्रिविधा-ज्ञानादिभेदाद, आह च उवसंपया य तिविहा णाणे तह दसणे चरित्ते य । दसणणाणे तिविहा दुविहा य चरित्तअट्ठाए ॥६९८॥ ___ व्याख्या-उपसम्पच त्रिविधा 'ज्ञाने' ज्ञानविषया तथा दर्शनविषया चारित्रविषया च, तत्र दर्शनशानयोः सम्बन्धिनी त्रिविधा द्विविधा च चारित्रार्थायेति गाथार्थः ॥ तत्र यदुक्तं-'दर्शनज्ञानयोत्रिविधेति तत्प्रतिपादयशाह वत्तणा संधणा चेव, गहणं सुत्तत्थतभए । वेयावचे खमणे, काले आवकहाइ य ॥ ६९९॥ व्याख्या वर्तना सन्धना चैव ग्रहणमित्येतत्रितयं 'सुत्तत्थतदुभएति सूत्रार्थोभयविषयमवगन्तव्यमिति, एतदर्थ ।।२६७॥ मुपसम्पद्यते, तत्र वर्तना प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, सन्धना तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलनं घटना| योजना इत्यर्थः, ग्रहणं पुनः तस्यैव तत्प्रथमतया आदानमिति, एतत्रितयं सूत्रार्थोभयविषयं द्रष्टव्यम् , एवं ज्ञाने नव Jantain Pro पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~95
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy