________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [६९३], भाष्यं [११९...]
%A4-k
कारणे गरछतः 'आवस्सिया होई' आवश्यिकी भवतीति गाथार्थः ॥ आह-कारणेन गच्छतः किं सर्वस्यैवानश्यकी भवति उत नेति !, नेति, कस्य तर्हि ?, उच्यते,
आवस्सिया उ आवस्सएहिं सव्वेहि जुत्तजोगिस्स । मणवयणकायगुतिदियस्स आवस्सिया होइ ॥ ३९४ ॥ । व्याख्या-आवश्यिकी तु 'आवश्यकैः प्रतिक्रमणादिभिः सर्वैर्युक्तयोगिनो भवति, शेषकालमपि निरतिचारस्य क्रियास्थस्येति भावार्थः, तस्य च गुरुनियोगादिना प्रवृत्तिकालेऽपि 'मण'इत्यादि पश्चाई मनोवाकायेन्द्रियैर्गुप्त इति समासः, तस्य, किम् ?-आवश्यिकी भवति, इन्द्रियशब्दस्य गाथाभङ्गभयाद्व्यवहितोपन्यासः, कायात्पृथगिन्द्रियग्रहणं प्राधान्यख्यापनार्थम् , अस्ति चायं न्यायः-'सामान्यग्रहणे सत्यपि प्राधान्यख्यापनार्थ भेदेनोपन्यासो' यथा-ब्राह्मणा आयाता वशिष्टोऽप्यायात इति गाथार्थः । उक्ताऽऽवश्यिकी, साम्प्रतं नैषेधिकी प्रतिपादयन्नाह
सेनं ठाणं च जहिं चेएइ तहिं निसीहिया होइ । जम्हा तत्थ निसिद्धो तेणं तु निसीहिया होइ ॥ ६९५ ॥ | व्याख्या-शेरतेऽस्यामिति शय्या-शयनीयस्थानंतां शय्यां 'स्थानं चेति स्थानमूलस्थानं, कायोत्सर्गः, यत्र 'चेतयते। 'चिती सज्ञाने' अनुभवरूपतया विजानाति वेदयतीत्यर्थः, अथवा 'चेतयते' इति करोति, शयनक्रियां च कुर्वता निश्चयतः शय्या; क्रिया कृता भवति, ततश्च यत्र स्वपितीत्यर्थः, चशब्दो वीरासनाद्यनुक्तसमुच्चयार्थः, अथवा तुशब्दार्थे द्रष्टव्यः, स च विशेषणार्थः, कथम् , प्रतिक्रमणाद्याशेषकृतावश्यकः सन्ननुज्ञातो गुरुणा शय्यां स्थानं च यत्र चेतयते 'तत्र' एवं-18
*कारणात् प० + किमुच्यते प्र० नमुक्तं म० शय्या प्र०. प्रतिक्रमणाधशेषैः काः समापितावश्यककृत्य एयर्थः.
RCRACKGRO904
JAMES
ind
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~92~