SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [६६७], भाष्यं [११९...] जिनवचनसाराः साधवस्तक्रियाया वैतथ्यप्रदर्शनाय मिथ्याकारं कुर्वते, मिथ्याक्रियेयमिति हृदयं २, तथाकरणं तथाकारः, स च सूत्रप्रश्नगोचरो यथा भवद्भिरुक्तं तथेदमित्येवं स्वरूपः ३, अवश्यकर्त्तव्योगनिष्पन्ना आवश्यिकी ४, चः समुच्चये, तथा निषेधेन निर्वृत्ता नैषेधिको ५, आप्रच्छनमापृच्छा, सा विहारभूमिगमनादिप्रयोजनेषु गुरोः कार्या ६, चः पूर्ववत्, तथा प्रतिपृच्छा, सा च प्राङ्गियुक्तेनापि करणकाले कार्या, निषिद्धेन वा प्रयोजनतः कर्तुकामेनेति, तथा छन्दना च प्राग्ग-1 हीतेनाशनादिना कार्या ८, तथा निमन्त्रणा अगृहीतेनैवाशनादिनाऽहं भवदर्थमशनाद्यानयामि इत्येवम्भूता ९, उपसम्पञ्च विधिनाऽऽदेया १०। एवं 'काले' कालविषया सामाचारी भवेदशविधा तु । एवं तावत्समासत उक्ताः, साम्प्रतं प्रपञ्चतः। प्रतिपदमभिधित्सुराह-एतेषां पदानां, तुर्विशेषणे, गोचरप्रदर्शनेन 'प्रत्येक' पृथकू पृथक् प्ररूपणां वक्ष्य इति गाथाद्वयसमासार्थः । तत्रेच्छाकारो येष्वर्थेषु क्रियते तत्प्रदर्शनायाहजइ अम्भत्थेज परं कारणजाए करेज से कोई । तत्थवि इच्छाकारो न कप्पई बलाभिओगो उ ।। ६६८ ॥ | व्याख्या-'यदी त्यभ्युपगमे अन्यथा साधूनामकारणेऽभ्यर्थना नैव कल्पते, ततश्च यद्यभ्यर्थयेत् 'परम्' अन्यं साधु ग्लानादौ कारणजाते कुर्यात् वा, 'से' तस्य कर्तुकामस्य 'कश्चिद् अन्यसाधुः, तत्र कारणजातग्रहणमुभयथाऽपि सम्बध्यते, तत्रापि तेनान्येन वा साधुना तत्तस्य चिकीर्षित कर्तुकामेन इच्छाकारः, कार्य इति क्रियाध्याहारः, अपिः चशब्दार्थे, अथवाऽपीत्यादिना न्यक्षेण वक्ष्यति, किमित्येवमत आह-न कल्पत एव बलाभियोग इति गाथार्थः ॥ उक्तगा-18 थावयवार्थप्रतिपादनायैवाह Siwanmorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~78~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy