________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [६६५], भाष्यं [११९...]
॥२५८॥
आवश्यक है, क्षपणमुपक्रमः, यथायुष्कोपक्रमञ्चासौ कालश्चेति समासः, तत्र हि कालकालवतोरभेदात् कालस्यैव आयुष्काद्युपाधिविशिष्टस्योपक्रमो वेदितव्य इत्यभिप्रायः । तत्र सामाचारी त्रिविधा - 'ओहे दसहा पदविभागे 'त्ति 'ओघः' सामान्यम्, ओघः सामाचारी सामान्यतः सङ्क्षेपाभिधानरूपा, सा चोघनिर्युक्तिरिति । दशविधसामाचारी इच्छाकारादिलक्षणा, पदविभागसामाचारी छेदसूत्राणीति । तत्रौघसमाचारी नवमात्पूर्वात् तृतीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात्माभृतात्, तत्राप्योधप्राभृतप्राभृतात् निर्व्यूढेति, एतदुक्तं भवति - साम्प्रतकालप्रत्रजितानां तावच्छ्रुतपरिज्ञानशक्तिविकलानामायुष्कादिहासमपेक्ष्य प्रत्यासन्नीकृतेति । दशविधसामाचारी पुनः षडूविंशतितमादुत्तराध्ययनात्स्वल्पतरकालप्रत्रजितपरिज्ञानार्थं निर्व्यूढेति । पदविभागसामाचार्य्यपि छेदसूत्रलक्षणान्नवमपूर्वादेव निर्व्यूढेति गाथार्थः ॥ साम्प्रतमोघनिर्युक्तिर्वाच्या, सा च सुप्रपञ्चितश्वादेव न वित्रियते, साम्प्रतं दशविधसामाचारीस्वरूपदर्शनायाह
Jus Educa
इच्छा मिच्छीं तहाकारो आवसिया य निसीहिया । आपुच्छणी य पडिपुच्छा छंदणा य निमंत्रणा ।। ६६६ ॥ उवसंपयी य काले, सामायारी भवे दसहा। एएसिं तु पयाणं पत्तेय परूवणं वोच्छं ॥ ६६७ ॥ दारगाहाओ ॥
व्याख्या -- एपणमिच्छा करणं कारः, तत्र कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छया-बलाभियोगमन्तरेण करणम् इच्छाकारः इच्छा क्रियेत्यर्थः, तथा चेच्छाकारेण ममेदं कुरु इच्छाक्रियया न च बलाभियोगपूर्विकयेति भावार्थः १, तथा मिथ्या वितध (ग्रन्था- ६५००) मनृतमिति पर्यायाः, मिथ्याकरणं मिथ्याकारः, मिथ्याक्रियेत्यर्थः तथा च संयमयोगवितथाचरणे विदित
For Fasten
हारिभद्रीयवृत्तिः विभागः १
~77 ~
॥२५८॥
Bandibray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः सामाचारी, तस्या इच्छा-मिच्छा आदि भेदा: