________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६६३], भाष्यं [११९...]
तद्विगुणः, 'चः समुचये, संवत्सरो-द्वादशमासात्मकः, युगं पञ्चसंवत्सरम् , असङ्ख्येययुगात्मक पलितमिति उत्तरपदलोपाद्, इत्थं सागरोपममपि, तत्र पल्योपमदशकोटीकोव्यात्मकं सागरमाख्यायते, उत्सर्पिणी-सागरोपमदशकोटीकोव्या-13 त्मिका, एवमवसपिण्यपि, परावर्तोऽनन्तोत्सपिण्यवसर्पिण्यात्मकः, स च द्रव्यादिभेदभिन्नः प्रवचनादवसेय इति | गाथार्थः ॥ द्वारम् ॥ यथाऽऽयुष्ककालद्वारमुच्यते-तत्राद्धाकाल एवायुष्ककर्मानुभवविशिष्टः सर्वजीवानां वर्तनादिमयो| यथायुष्ककालोऽभिधीयते, तथा चाहनेरइयतिरियमणुयादेवाण अहाउयं तु जं जेण। निव्वत्तियमण्णभवे पालेंति अहाउकालो सो ॥ ६६४ ॥दारं ॥ __व्याख्या-नारकतिर्यग्मनुष्यदेवानां यथायुष्कमेव यद्येन निवेर्तितं-रौद्रध्यानादिना कृतम् 'अन्यभवे' अन्यजन्मनि तद् यदा विपाकतस्त एवानुपालयन्ति स यथायुष्ककालस्तु, इति गाथार्थः । द्वारम् ॥ साम्प्रतमुपक्रमकालद्वारमाहदुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥६६५॥ दारं॥ | व्याख्या-द्विविधश्चासावुपक्रमकालश्चेति समासः, तदेव द्वैविध्यमुपदर्शन्नाह-सामायारी अहाउअंचेव' समाचरणं समाचारः-शिष्टाचरितः क्रियाकलापस्तस्य भावः "गुणवचनब्राह्मणादिभ्यः कर्मणि च” (पा०५-१-१२४) ध्यञ्। समाचाऱ्या, पुनः स्त्रीविवक्षायां षिद्गौरादिभ्यश्चे (पा०४-१-४१) ति डीए, यस्ये (पा० यस्येति च ६०४-१४८) त्यकारलोपः, यस्य हल (पा०६-४-४९) इत्यनेन तद्धितयकारलोपः, परगमनं सामाचारी, तस्या उपक्रमणम्-उपरिमनुतादिहानयनमुपक्रमः, सामाचार्युपक्रमश्चासौ कालश्चेति समासः, यथाऽऽयुष्कस्योपक्रमणं दीर्घकालभोग्यस्य लघुतरकालेन ।
JABERam
V
IDharam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~76~