________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥२५७॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [६६१], भाष्यं [११९...]
Jus Educa
व्याख्या --चेतनाचेतनस्य देवस्य स्कन्धादेः, विन्दुरलाक्षणिकः, अथवा चेतनस्याचेतनस्य च द्रव्यस्य स्थानं-स्थितिरेव या सादिसपर्यवसानादिभेदेन 'चतुर्विकल्पा' चतुर्भेदा सा स्थितिर्भवति द्रव्यस्य कालो द्रव्यकालः, तत्पर्यायत्वात्, अथवा 'द्रव्यं तु' तदेव द्रव्यमेव कालो द्रव्यकाल इति गाथार्थः ॥ चेतनाचेतनद्रव्यचतुर्विधस्थितिनिदर्शनायाह| गइ सिद्धा भवियाया अभविय पोग्गल अणागयडा य। तीयड तिनि काया जीवाजीवद्विई चउहा ॥ ६६२|| दारं ।।
व्याख्या- 'गति'त्ति देवादिगतिमधिकृत्य जीवाः सादिसपर्यवसानाः, 'सिद्ध'त्ति सिद्धाः प्रत्येकं सिद्धत्वेन साधपर्यव- 4 साना: 'भवियाय'त्ति भव्याश्च भव्यत्वमधिकृत्य केचनानादिसपर्यवसानाः, 'अभविय'त्ति अभव्याः खल्वभव्यतया अनाद्यपर्यवसाना इति जीवस्थितिचतुर्भङ्गिका । 'पोग्गल'त्ति पूरणगलनधर्माण: पुद्गलाः, ते हि पुद्गलत्वेन सादिसपर्यवसानाः, 'अणागयद्ध'त्ति अनागताद्धा-अनागतकालः, स हि वर्त्तमानसमयादिः सादिरनन्तत्वाश्चापर्यवसान इति, 'तीयद्ध'त्ति | अतीतकालोऽनन्तत्वादनादिः साम्प्रतसमयपर्यन्तविवक्षायां सपर्यवसान इति, 'तिणि काय'ति धर्माधर्माकाशास्तिकायाः खल्वनाद्यपर्यवसाना इति, इत्थं जीवाजीवस्थितिश्चतुर्खेति गाथार्थः ॥ द्वारम् । अद्धाकालद्वारावयवार्थं व्याचिख्यासुराह | समयावलिय मुहुत्ता दिवसमहोरत्त पक्ख मासा य । संबच्छर युग पलिया सागर ओसप्पि परियहा ।। ६६३|| दारं व्याख्या - तत्र परमनिकृष्टः कालः समयोऽभिधीयते स च प्रवचनप्रतिपादित पट्टशाटिकापाटनदृष्टान्तादवसेयः, आवलिका असङ्ख्य समय समुदायलक्षणा, द्विघटिको मुहूर्त्तः, दिवसश्चतुष्प्रहरात्मकः, यद्वा आकाशखण्डमादित्येन स्वभाभिर्व्याप्तं तद्दिवसं इत्युच्यते, शेषं निशेति, अहोरात्रमष्टप्रहरात्मकमहर्न्निशमित्यर्थः पक्षः पञ्चदशाहोरात्रात्मकः, मासः -
For any
jandibray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः कालस्य समय, आवलिका, मुहूर्त आदि भेदा:
हारिभद्रीयवृत्तिः विभागः १
~75~
॥२५७॥