________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
आवश्यक
॥२५५॥
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [– / गाथा-], निर्युक्ति: [ ६४५], भाष्यं [११९...]
धरो जात इति गाथार्थः ॥ कालद्वारावयवार्थः प्रतिपाद्यते तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराह
जेडा कित्तिय साई सवणो हत्थुतरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो ॥ ६४६ ।। व्याख्या - ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा - उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः ॥ द्वारम् । जन्मद्वारं प्रतिपाद्यते मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह -
भूई धमित्ते घम्मिल घणदेव मोरिए चैव । देवे वसू य दत्ते वले य पियरो गणहराणं ॥ ६४७ ॥ व्याख्या - वसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणां तत्र त्रयाणामाद्यानामेक एव पिता, शेषाणां तु यथासङ्ख्यं धनमित्रादयोऽवसेया इति गाथार्थः ॥
पुहवीय वारुणी महिला य विजयदेवा तहा जयंती य । णंदाय वरुणदेवा अङ्गभद्दा य मायरो ॥ ६४८ ॥ दारं ॥ व्याख्या - पृथिवी च वारुणी भद्रिला च विजयदेवा तथा जयन्ती च नन्दा च वरुणदेवा अतिभद्रा च मातरः, तत्र पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषां, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः ॥ गोत्रद्वारप्रतिपादनाय आहतिष्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिहा । कासवगोयमहारिय कोडिण्णदुर्गं च गोत्ताहं ॥ ६४९ ॥
For Fans at Use Only
दारिभद्री यवृत्ति विभागः १
~71~
॥२५५॥
Sanibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः