SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६३२], भाष्यं [११९...] तावरपुण्यमेवापचीयमानं दुःखकारणं, तस्य सुखहेतुत्वेनेष्टत्वात् , स्वरूपस्यापि स्वरूपसुखनिवर्तकत्वात् , तथा चाणीयसो हेमपिण्डादणुरपि सौवर्ण एव घटो भवति, न मार्तिक इति, न च तदभावो दुःखहेतुः, तस्य निरुपाख्यत्वात्, न च । सुखाभाव एव स्वसत्ताविकलो दुःखं, तस्यानुभूयमानत्वात् , ततश्च स्वानुरूपकारणपूर्विका दुःखप्रकर्षानुभूतिः, प्रकर्षा-2 द्रनुभूतित्वात् , पुण्यप्रकर्षानुभूतिवत्, न च पुण्यलेश एवानुरूपं कारणमस्या इति, एवं दृष्टान्तोऽप्याभासितव्यः, केवलपुण्य-IX वादनिरासः । केवलपापपक्षेऽपि विपरीतमुपपत्तिजालमिदमेव वाच्यं, नापि तत्सर्वथाऽन्योऽन्यानुविधस्वरूपं निरंशवस्त्वन्तरमेव, सर्वथा सम्मिश्रसुखदुःखाख्यकार्यप्रसङ्गाद्, असदृशश्च सुखदुःखानुभवो, देवानां सुखाधिक्यदर्शनात्, नारकाणांच |दुःखाधिक्यदर्शनात्, न च सर्वथा सम्मिकरूपस्य हेतोरल्पबहुत्वभेदेऽपि कार्यस्य स्वरूपेण प्रमाणतोऽल्पबहुत्वं विहाय भेदो युज्यते, न हि मेचककारणप्रभवं कार्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्च दुःखातिशयस्येति। न च सर्वथैकस्य सुखातिशयनिवन्धनांशवृद्धिर्दुःखातिशयकारणांशहाच्या सुखातिशयमभवाय कल्पयित 15 न्याय्या, भेदप्रसङ्गात् , तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतः-'सात (सद्धेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू० २६) मिति, सर्व चैतत्कर्म, तस्माद्विविक्के पुण्यपापे स्त इति । संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति, किञ्चित्कस्यचिदुपशान्तं किश्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किश्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति। T पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~66~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy