________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६३२], भाष्यं [११९...]
आवश्यक
॥२५२॥
चामूनि वेदपदानि-पुरुष एवेदं निं सर्व' मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथै- हारिभद्रीच, तथा सौम्याचलभ्रातः त्वमित्थं मन्यसे-दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाञ्चिद्दर्शनम्-पुण्यमेवैकमस्ति न पापं, तदेव यत्तिः
विभागः१ चावाप्तप्रकर्षावम्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यमारकादिभवफलाय,तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवना-8 दुत्कृष्टमारोग्यसुखं भवति, किञ्चित्किश्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकं,न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालं, क्षीयमाणं तु तियनरामरभवायेति, तदत्यन्तक्षयाच मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यं, तस्यैव किञ्चित्किश्चिदपकर्षादारोग्यसुखम् ,अशेषपरित्यागान्मृतिकल्पो मोक्ष इति, अन्येषां तूभयमप्यन्योऽन्यानुविद्धस्वरूपकल्पं सम्मिश्रसुखदुःखाख्यफलहेतुभूतमिति, तथा च किल नैकान्ततः संसारिणः सुखं दुःखं चास्ति, देवानामपीादियुक्तत्वात् , नारकाणामपि च पञ्चेन्द्रियत्वानुभवाद्, इत्थंभूतपुण्यपापाख्यवस्तुक्षयाचापवर्ग इति, अन्येषां तु स्वतन्त्रमुभयं विविक्तसुखदुःखकारणं, तत्क्षयाच निःश्रेयसावाप्तिरिति, अतो दर्शनानां परस्परविरुद्धत्वात् अप्रमाणत्वादस्मिन्विषये प्रामाण्याभाव इति तेऽभिप्रापः, 'पुण्यः पुण्येने-16 त्यादिना प्रतिपादिता च तत्सत्ता, अतः संशयः, तत्र वेदपदानां चार्थ न जानासि, तेषामयमर्थः यथा द्वितीयगणधरे| तथा स्वभावनिराकरणयुक्तो वक्तव्यः, सामान्यकर्मसत्तासिद्धिरपि तथैव वक्तव्या, यच्च दर्शनानामप्रामाण्यं मन्यसे, परस्पर-13 ॥२५२॥ विरुद्धत्वाद्, एतदसाम्प्रतम् , एकस्य प्रमाणत्वात् , तथा च पाटलिपुत्रादिस्वरूपाभिधायकाः सम्यक् तद्रूपाभिधायकयुक्ताः परस्परविरुद्धवचसोऽपि न सर्व एवाप्रमाणतां भजन्ते, तत्र यत्प्रमाणं तदप्रमाणनिरासद्वारेण प्रदर्शयिष्यामः, तत्र न
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~65~