________________
आगम
(४०)
प्रत
सूत्रांक
[
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [ ], मूलं [- /गाथा - ], निर्युक्तिः [६२४], भाष्यं [११९...]
॥२५०॥
आवश्यक र्त्यस्ये' त्यादीनि च, तथा 'को जानाति ? मायोपमान् गीर्वाणानिन्द्रयमवरुणकुबेरादीनि' त्यादि, एतेषां चायमर्थस्ते मती 6 प्रतिभासते यथा अपाम- पीतवन्तः सोमं उतारसम् अमृता-अमरणधर्माणः अभूम-भूताः स्म, अगमन् - गताः ज्योतिः- ४ स्वर्गम्, अविदाम देवान् देवत्वं प्राप्ताः स्मः, किं नूनमस्मांस्तृणवत्करिष्यतीति, अयमर्थः-अरातिर्व्याधिः किमु-प्रश्ने धूतिः जरा अमृतमर्त्यस्य- अमृतत्वं प्राप्तस्य पुरुषस्येत्येवं द्रष्टव्यम्, अमरणधर्मिणो मनुष्यस्य किं करिष्यन्ति व्याधयः १ । तथा सौम्य ! त्वमित्थं मन्यसे - नारकाः सङ्किष्टासुरपरमाधार्मिकायत्ततया कर्मवशतया च परतन्त्रत्वात् स्वयं च दुःख| सम्प्रतप्तत्वादिहागन्तुमशक्ता एवं, अस्माकमप्यनेन शरीरेण तत्र कर्मवशतया एवं गन्तुमशक्यत्वात् प्रत्यक्षीकरणोपायासम्भवाद् आगमगम्या एव, श्रुतिस्मृतिग्रन्थेषु श्रूयमाणाः श्रद्धेया भवन्तु ये पुनर्देवाः स्वच्छन्दचारिणः कामरूपाः प्रकृ|ष्टदिव्यप्रभावात् इहागमनसामर्थ्यवन्तस्ते किमितीह नागच्छन्ति ? यतो न दृश्यन्त इति, अतो न सन्ति ते, अस्मदाद्यप्रत्यक्षत्वात् खरविषाणवत्, तत्र वेदपदानां चेत्यादि पूर्ववत्, तत्र वेदपदानामयमर्थः ' को जानाति ? मायोपमान् गीर्वा णानिन्द्रय मवरुणकुबेरादीनित्यादि, तत्र परमार्थचिन्तायां सन्ति देवाः, मत्प्रत्यक्षत्वात् मनुष्यवत् भवतोऽपि, आगमाच्च सर्वथा, सर्वमनित्यं मायोपमं न तु देवनास्तित्वपराणि वेदवाक्यानीति, तथा स्वच्छन्दचारिणोऽपि चामी यदिह नागच्छन्ति तत्रेदं कारणम्-नागच्छन्तीह सदैव सुरगणाः, सङ्क्रान्तदिव्यप्रेमत्वाद्विषयप्रसक्तत्वात् प्रकृष्टरूपगुणस्त्रीप्रसक्तविच्छिन्नरम्यदेशान्तरगतमनुष्यवत्, तथाऽसमाप्तकर्त्तव्यत्वाद्, बहु कर्त्तव्यताप्रसाधन प्रयुक्त विनीतपुरुषवत्, तथाऽनधीनमनुजकार्यत्वात्, नारकवत्, अनभिमतगेहादौ निःसङ्गन्यतिवद्वेति, तथाऽशुभत्वान्नरभवस्य तद्गन्धासहिष्णुतया नागच्छन्ति,
For Final P
हारिभद्रीयवृत्तिः विभागः १
~61~
॥२५०॥
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः