SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६२०], भाष्यं [११९...] हारिभद्री यवृत्ति विभागः१ आवश्यक- युगपदुभयस्येति !, किं चातः, न तावत्पूर्वमात्मप्रतियुज्यते, निर्हेतुकत्वाद्, व्योमकुसुमवत् , नापि कर्मणः प्राक् प्रसूतिः, कर्तुरभावात्, न चाकर्तृकं कर्म भवति, युगपत्प्रसूतिरप्यकारणत्वादेव न युज्यते, न चानादिमत्यप्यात्मनि बन्धो युज्यते, ॥२४॥ भावा बन्धकारणाभावाद् गगनस्येव, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा मुक्तस्यापि बन्धप्रसङ्गः, तथा च सति नित्यमोक्षत्वान्मो- क्षानुष्ठानचैयर्यम् , अथ द्वितीयः पक्षः, तथापि नात्मकर्मवियोगो भवेद् , अनादित्वाद्, आत्माकाशसंयोगवद, इत्थं मोक्षो न घटते, तथा देहकर्मसन्तानानादित्वाच्च कुतो मोक्ष इति ते मतिः। तत्र वेदपदानामयमर्थः-स एप-मुक्तात्मा विगताः छानस्थिकज्ञानादयो गुणा यस्य स विगुणः विभुः-विज्ञानात्मना सर्वगतः न बध्यते-मिथ्यादर्शनादिवन्धकारणाभावात् संसरति वा-मनुजादिभवेषु कमेंबीजाभावात्, नेत्यनुवर्तते, न मुच्यते, मुक्तत्वात् , मोचयति वा तदा खलूप-1 देशदानविकलत्वात् , नेत्यनुवर्तते, तथा संसारिकसुखनिवृत्त्यर्थमाह-नवा एष-मुक्तात्मा बाह्यं-सकन्दनादिजनितम् आभ्यन्तरम्-आभिमानिक वेद-अनुभवात्मना विजानातीत्येवमेतानि मुक्तात्मस्वरूपाभिधायकाम्पेच, शेषाणि तु सुगमानि, तथा जीवकर्मणोरप्यनादिमतोरनादिमानेव संयोगो, धर्माधर्मास्तिकायाकाशसंयोगवदिति, न चानादित्वात्संयोगस्य वियोगाभावः, यतः काञ्चनोपलयोः संयोगोऽनादिसन्ततिगतोऽपि क्षारमृत्पुटपाकादिद्रव्यसंयोगोपायतो विघटते, एवं जीवकर्मणोरपि ज्ञानदर्शनचारित्रयोगोपायाद्वियोग इति, न चानादित्वात्सर्वस्य कर्मणो जीवकृतत्वानुपपत्तिः, यतो वर्तमानतया मिथ्यादर्शनादिसव्यपेक्षात्मनोपात्तं कृतमित्युच्यते, सर्व च वर्तमानत्वेन मिथ्यादर्शनादिसव्यपेक्षात्मोपात्त ६ कर्म अनादि च, कालवत्, यथा हि यावानतीतः कालस्तेनाशेषेण वर्तमानत्वमनुभूतमथ चासावनादिरिति, न चामृतस्य T AAG ॥२४॥ JABERatinintamational Swjanmorary on पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~59~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy