________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१९], भाष्यं [११९...]
व्याख्या-पूर्ववत् । किंमनिबंधमोक्खाअथिण अत्यित्ति संसओ तुझं । वेयपयाण य अत्थं ण याणसी तेसिमो अत्थो ॥ ३२०॥ | व्याख्या-किं मन्यसे बन्धमोक्षौ स्तो न वा?, नन्वयमनुचितस्ते संशयः,व्याख्यान्तरं पूर्ववत् , अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, वेदपदानां चार्थ न जानासि, चः पूर्ववत् , तेषामयमों-वक्ष्यमाणलक्षण इत्यर्थः । तानि चामूनि वेदपदानि-स एप विगुणो विभुने बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा 8 वेद' इत्यादीनि, तथा 'नह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादीनि हाच, एषां चायमर्थस्ते चेतसि प्रतिभासते-स एषः-अधिकृतो जीवः विगुणः-सत्त्वादिगुणरहितः विभुः-सर्वगतः न बध्यते
पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्तते, न मुच्यते-न कर्मणा वियुज्यते, बन्धाभावात् , मोचयति वाऽन्यम् , अनेनाकर्तृकत्वमाह, न वा एष बाह्यम्-आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद-विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्वन्धमोक्षानुपपत्तिरिति भावः । ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि,
तथा 'नह बैं' नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोसरपहतिः संसारिणो नास्तीत्यर्थः, अशरीरं वा वसन्तम्-अमूर्तमित्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि ||
च बन्धमोक्षाभिधायकानीति, अतः संशयः,तथा सौम्य! भवतोऽभिप्रायो-बन्धोहि जीवकर्मसंयोगलक्षणः,स आदिमानादिदारहितो वा स्यात् , यदि प्रथमो विकल्पस्ततः किं पूर्वमात्मप्रसूतिः पश्चात्कर्मणः उत पूर्व कर्मणः पश्चादात्मनः आहोन्धि
JABERatinintamational
wwwlansorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~58~