________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१४], भाष्यं [११९...]
व्याख्या-'तान् इन्द्रभूतिप्रमुखान् प्रत्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाश, किम्भूतेनाध्यवसायेन इत्याह-पश्चाट्टै पूर्ववत् । स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे
आमट्ठो य जिणेणं जाइजरामरणविप्पमुकेणं । नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ ६१५ ।। व्याख्या-पूर्ववत् । किं मण्णि जारिसो इह भवंमिसो तारिसो परभवेऽवि? वेयपयाण य अत्थंण जाणसी तेसिमो अस्थो ॥३१६।।
व्याख्या-किं मन्यसे ? यो मनुष्यादिर्यादृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत् , संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, तानि चामूनि-"पुरुषो वै पुरुषत्वमश्नुते' पुरुषत्वं प्रामोतीत्यर्थः 'पशवः पशुत्वम्' इत्यादीनि, तथा 'शृगालो वै एष जायते यः सपुरीषो दह्यते' इत्यादीनि च, तत्र वेदपदानां चार्थ न जानासि, चः पूर्ववत् , तेषामयमों-वक्ष्यमाणलक्षण इत्यक्षरार्थः। तत्र वेदपदानां त्वमित्थमर्थ मन्यसे-पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, तथा पशवो-गवादयः पशुत्वमेवेत्यमूनि भवान्तरसादृश्याभिधायकानि, तथा 'शृगालो वै एप' इत्यादीनि तु भवान्तरे वैसादृश्यख्यापकानीत्यतः संशयः, कारणानुरूपं च कार्यमुत्पद्यते इति तेऽभिप्रायो, यतो न शालिबीजाद्गोधूमाङ्करप्रसूतिः इति, तत्र वेदपदानामयमर्थः-पुरुषः खबिह जन्मनि स्वभावमाईवाजेवादिगुणयुक्तो मनुष्यनामगोत्रे कर्मणी बद्धा मृतः सन् पुरुषत्वमश्नुते, न तु नियमतः, एवं पशवोऽपि पशुभवे मायादिगुणयुक्ताः पशुनामगोत्रे कर्मणी बवा मृताः सन्तः पशुत्वमासादयन्ति, न तु नियो गतः इति, कर्मसापेक्षो जीवानां
-
-
ranjanniorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~56~