SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [६१२], भाष्यं [११९...] आवश्यक॥२४७॥ हारिभद्री |विभागः१ Tསྒྱུ ༔ གཤྩ, ཟླ CALSACCES किंच-आलयात्पीतादिसंवेदनजननशक्कयो भिन्ना वा स्युरभिन्ना वा !, यद्यभिन्नाः सर्वैकत्वप्रसङ्गा, एकालयाभेदाभ्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता , प्रयोगश्च-नीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्त्यन्तररूपत्वात् , शक्त्यन्तरस्वात्मवत् , अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति !, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न च विषयबलोपजातसंवेदनाकारस्य विषयानेदाभेदविकल्पद्वारेणानुपपत्तिर्भाव्या, विशिष्टपरिणामोपेतार्थसन्निधावात्मनः कालक्षयोपशमादिसव्यपेक्षस्य नीलादिविज्ञानमुत्पद्यते, तथापरिणामादू, इत्थं चैतदङ्गीकर्तव्यम् , अन्यथा नीलात्संवेदनानीलसंवेदनान्तरानुपपत्तिः, प्रागुपन्यस्तविकल्पयुगलकसम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृह्यते, न च परमाणूनां बहुत्वेऽपि विशेषाभावाद् घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात् , तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन । छिपकमि संसयंमी जिणेण जरमरणविप्पमुक्केणं । सो समणो पब्बईओ पंचहिँ सह खंडियसएहिँ ॥ ६१३॥ व्याख्या-पूर्ववत् । इति चतुर्थों गणधरः समाप्तः। ते पब्वइए सोउं सुहमो आगच्छई जिणसगासं । वच्चामि ण बंदामी वंदित्ता पजुवासामी ॥ १४ ॥ R॥२४७) पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~55~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy