SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-२९] “आवश्यक” - मूलसूत्र - १/२ (मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [ ], मूलं [- /गाथा ], निर्युक्तिः [ ६१२], भाष्यं [११९...] नामयमर्थः, 'स्वमोपमं वै सकल' मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वा| द्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्त्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी 'त्यादीनि तु सुगमानि तथा सौम्य न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात्, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात् न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणुव्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात् न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात् तथा चाशेपपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः स्वभावभेदानभ्युपगमे च सजातीयेतर भेदानुपपत्तेः सजातीयैकान्तव्यावृत्ती च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनिय - मेनोत्पत्तेः न च स्वमबुद्ध्या व्यभिचारः, तस्या अध्यनेकविधनिमित्त बलेनैव भावात्, आह च भाष्यकारः - " अणुभूय दि चिन्तिय सुय पयइवियार देवयाऽणूया । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥ १ ॥” न च भूताभावे स्वमास्वमगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाक समनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तिर्युज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामक सहकारिकारणाभावात् अनुभूतं चिन्तितं श्रुतं प्रकृतिविकारः देवताऽनूपः । स्वमस्य निमित्तानि पुण्यं पापं च नाभावः ॥ १ For Use Only www.lincibrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः ~ 54~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy