________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[3]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९३८ ], भाष्यं [१५१...]
व्याख्या - उत्पत्तिरेव प्रयोजनं यस्याः सा औत्पत्तिकी, आह-क्षयोपशमः प्रयोजनमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात् सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति १, विनयः- गुरुशुश्रूषा सकारणमस्यास्तत्प्रधाना वा वैनयिकी २, अनाचार्यकं कर्म साचार्यकं शिल्पं, कादाचित्कं वा कर्म शिल्पं नित्यव्यापार', 'कर्मजा' इति कर्मणो जाता कर्मजा ३, परि:- समन्तान्नमनं परिणामः - सुदीर्घकाल पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः स कारणमस्यास्तत्प्रधाना वा पारिणामिकी ४, बुध्यतेऽनयेति-बुद्धि: - मतिरित्यर्थः सा च चतुर्विधोका तीर्थकरगणधरैः, किमिति ?, यस्मात् पञ्चमी नोपलभ्यते केवलिनाऽप्यसत्त्वादिति गाथार्थः ॥ औत्पत्तिक्या लक्षणं प्रतिपादयन्नाह - पुण्वमदिट्ठमस्सुभमवेइअ तक्खणवि सुद्धगहिअत्था । अब्वायफलजोगिणि बुद्धी उपपत्तिआ नाम ॥ ९३९ ॥
व्याख्या - 'पूर्वम्' इति बुद्ध्युत्पादात् प्राक् स्वयमदृष्टोऽन्यतश्चाश्रुतः 'अवेदितः' मनसाऽप्यनालोचितः तस्मिन्नेव क्षणे विशुद्धः - यथावस्थितः गृहीतः - अवधारितः अर्थः-अभिप्रेतपदार्थो यया सा तथा, इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तराबाधितं वाऽव्याहतमुच्यते, फलं-प्रयोजनम्, अव्याहतं च तत्फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी अव्याहतफलेन योगिनी अव्याहतफलयोगिनी, अन्ये पठन्ति-अव्याहतफलयोगा, अव्याहतफलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नामेति गाधार्थः ॥ साम्प्रतं विनेयजनानुग्रहायास्या एव स्वरूपप्रतिपादनार्थमुदाहरणानि प्रतिपादयन्नाह - भरहसिल १ पॅणि २ रुक्खे ३ खुड्डग ४ पड ५ सरड ६ काग ७ उच्चारे ८ |
गय ९ घयण १० गोल ११ खंभे १२, खुड्डग १३ मग्गत्थि १४ प १५ पुत्ते १६ ॥ ९४० ॥ पण + मुद्रिका
For Full
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः औत्पातिकीबुद्धिः विषयक विविध दृष्टांता:
~390~