SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [५८५], भाष्यं [११९...] भवते पुनरानीताश्चेति समासः, तेषां, किंविशिष्टानाम् -अखण्डाः-सम्पूर्णावयवाः अस्फुटिताः-राजीरहिताः, अखण्डाश्च तेऽस्फुटिताश्च इति समासः,तेषां, फलगसरिताणं'ति फलकवीनितानाम् एवंभूतानामाढकं क्रियते बलिः, सुरा अपि च तत्रैव बलौ प्रक्षिपन्ति गन्धादीनिति गाथार्थः ॥५८५॥द्वार|माल्यानयनद्वारं,इदानीं तमित्थं निष्पन्नं बलिं राजादयस्त्रिदशसहिताः गृहीत्वा तूनिनादेन दिग्मण्डलमापूरयन्तः खत्यागच्छन्ति,पूर्वद्वारेण च प्रवेशयन्ति,अत्रान्तरे भगवानप्युपसंहरतीति, आह-12 बलिपविसणसमकालं पुव्वहारेण ठाति परिकहणा । तिगुणं पुरओ पाडण तस्सद्धं अवडियं देवा ॥५८६ ।।। । व्याख्या-पूर्वद्वारेणेति व्यवहित उपन्यासः, बलेः प्रवेशनं पूर्वद्वारेण, बलिप्रवेशनसमकालं तिष्ठति उपरमते धर्मकथेति, 'तिगुणं पुरओ पाडण' प्रविश्य राजादिबलिव्यग्रदेहो भगवन्तं त्रिः प्रदक्षिणीकृत्य तं बलिं तत्पादान्तिके पुरतः पातयति, तस्य चार्द्धमपतितं देवाः गृहन्ति, इति गाथार्थः ।। ५८६ ॥ अद्धहं अहिवइणो अवसेसं हवह पागयजणस्स । सब्वामयप्पसमणी कुप्पा णऽण्णो य छम्मासे ॥ ५८७ ॥ है व्याख्या-शेषार्द्धस्य अर्द्ध-अर्द्धार्द्ध तदधिपतेर्भवति राज्ञ इत्यर्थः, अवशेष यद्दलेरास्ते तद्भवति कस्य ?, प्रकृतिषु भवः प्राकृतो-जनस्तस्य, स चेत्धंसामो भवति-ततः सिकुथेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्यश्च षण्मासान यावन भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्च षण्मासं यावत् । प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः ॥५८७ ॥ द्वारम् ॥ अपरे त्वनन्तरोक्तद्वारद्वयमष्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति । इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~38~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy