SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [3] Jus Educator [भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+ वृत्तिः) अध्ययन [-], मूलं [१ / गाथा -], निर्युक्तिः [९२३ ], भाष्यं [१५१...] 'जीवम्' आत्मानं 'मोचयति' अपनयति, कुतः १ - भवसहस्रेभ्यः, 'भावेन' उपयोगेन क्रियमाणः, इह च सहस्रशब्दो यद्यपि दशशतसङ्ख्यायां वर्तते तथाऽप्यत्रार्थादनन्त सङ्ख्यायामवगन्तव्यः, अनन्तभवमोचनान्मोक्षं प्रापयतीत्युक्तं भवति, आह-न सर्वस्यैव भावतोऽपि नमस्कारकरणे तद्भव एव मोक्षः, तत्कथमुच्यते-जीवं मोचयतीत्यादि, उच्यते, यद्यपि तद्भव एव मोक्षाय न भवति तथाऽपि भावनाविशेषाद्भवति पुनः 'बोधिलाभाव' बोधिलाभार्थ, बोधिलाभश्चाचिरादविकलो मोक्ष हेतुरित्यतो न दोष इति गाथार्थः ॥ ९२३ ॥ तथा चाह अरिहंतनमुकारो धन्नाण भवक्खयं कुर्णताणं । हिअयं अणुम्मुअंतो विसुत्तियावारओ होइ ॥ ९२४ ॥ व्याख्या -- अर्हन्नमस्कार इति पूर्ववत्, धन्यानां भवक्षयं कुर्वताम्, तत्र धन्याः -- ज्ञानदर्शनचारित्रधनाः साध्वादयः, तेषां भवक्षयं कुर्वतामिति, अत्र तद्भवजीवितं भवः तस्य क्षयो भवक्षयस्तं कुर्वताम् - आचरतां किम् ? 'हृदय' चेतः 'अनुन्मुञ्चन' अपरित्यजन्, हृदयादनपगच्छन्नित्यर्थः, विस्रोतसिकावारको भवति, इहापध्यानं विस्रोतसिकोभ्यते, तद्वारको भवति, धर्मध्यानैकालम्बनतां करोतीति गाथार्थः ॥ ९२४ ॥ अरहंतनमुक्कारो एवं खलु वण्णिओ महत्थुत्ति । जो मरणंमि उनग्गे अभिक्खणं कीरए बहुसो ॥ ९२५ ॥ व्याख्या - अर्हनमस्कार एवं खलु वर्णितो 'महार्थ' इति महानथों यस्य स महार्थः, अल्पाक्षरोऽपि द्वादशाङ्गार्थसङ्घाहित्वान्महार्थ इति, कथं पुनरेतदेवमित्याह-यो नमस्कारो 'मरणे' प्राणत्यागलक्षणे उपाने- समीपभूते 'अभिक्षणम्' अनवरतं क्रियते 'बहुशः' अनेकशः, ततश्च प्रधानापदि समनुस्मरणकरणेन ग्रहणात् महार्थः, प्रधानश्चायमिति । आह च For Unl ancibrary org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः ~374~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy