________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [५७६], भाष्यं [११९...]
देशनाकरणानुपपत्तेः, तथा ऋद्धिविशेषश्चायं भगवतो-यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयध्यवरिछसि करोतीति ।। अकालहरणं चेत्थं भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्थात्, न च भगवन्तमष्यवाप्य संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपि च तेषामित्वमेव भवति, न ह्यसर्वज्ञो हद्गताशेषसंशयापनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्पतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूतिः-अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः ॥ ५७६ ॥ द्वारम् ॥ श्रोतृपरिणामः पर्यालोच्यते-तत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया. परिणमते तथा प्रतिपादयन्नाहवासोदयस्स व जहा वण्णादी होति भायणविसेसा । सब्वेसिपि सभासा जिणभासा परिणमे एवं ॥५७७
व्याख्या-'वर्षोदकस्य वा' वृष्ट-चुदकस्य वा, वाशब्दात् अन्यस्य वा, यथैकरूपस्य सतः वर्णादयो भवन्ति, भाजनविशेपात्, कृष्णसुरभिमृत्तिकायां स्वच्छ सुगन्धं रसवच्च भवति ऊपरे तु विपरीतम् , एवं सर्वेषामपि श्रोतॄणां स्वभाषया |जिनभाषा परिणमत इति गाथार्थः॥ ५७७ ॥ तीर्थकरवाचः सौभाग्यगुणप्रतिपादनायाहसाहारणासवते तदुवओगो उ गाहगगिराए । न य निविज्वइ सोया किढिवाणियदासिआहरणा ॥ ५७८ ॥
व्याख्या-साधारणा-अनेकप्राणिषु स्वभाषात्वेन परिणामात् नरकादिभयरक्षणत्वाद्वा, असपना-अद्वितीया, साधा|रणा(चा)ऽसावसपना चेति समासः, तस्यां साधारणासपनायां सत्या, किम् !, तस्थामुपयोगस्तदुपयोग एव भवति श्रोतुः,
indiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~34~