SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [५७१], भाष्यं [११९...] (४०) 444 'सत्व' वीर्यान्तरायकर्मक्षयोपशमादिजन्य आत्मपरिणामः, सारो द्विधा-बाह्योऽभ्यन्तरक्ष, बायो गुरुत्वम् , आभ्यन्तरो ज्ञानादिः,'उच्छासः'प्रतीत एव,संहननं च रूपंच संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह-'नामोदयादिति नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः ॥५७१॥ आह-अन्यासां प्रकृतीनां वेदना गोत्रादयो नानो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति ?, अत्रोच्यतेपगडीणं अण्णासुवि पसस्थ उदया अणुत्तरा होंति । खय उवसमेऽपि य तहा खयम्मि अविगप्पमाहंसु॥५७२॥ | व्याख्या-पगडीणं अण्णासुवि' ति, पछ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव , नेत्याह-'अनुत्तरा' अनन्यसदृशा इत्यर्थः, अपिशब्दानानोऽपि येऽन्ये जात्यादय इति । 'खय उवसमेऽवि य तह ति,क्षयोपशमेऽपि सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये सति क्षायिकज्ञानादिगुणसमुदयम् 'अधिगप्पमासु'त्ति अविकल्प-च्यावर्णनादिविदिकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गणधरा इति गाथार्थः ॥ ५७२ ॥ आह-असातवेदनीयाद्याः प्रकृतयो नानो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति इति ?, अत्रोच्यतेअस्सायमाझ्याओ जावि य असुहा हवंति पगडीओ।णिंबरसलवोव्व पए ण हॉति ता असुहया तस्स ॥५७३|| व्याख्या-असाताद्या या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव 'पयसि' क्षीरे लवो-बिन्दुः, पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~32~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy