________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८८४], भाष्यं [१५१...]
(४०)
आवश्यक- हारिभद्रीया
१२, 'क्रमभिन्नं यत्र यथासङ्ख्यमनुदेशो न क्रियते, यथा 'स्पर्शनरसनघ्राणचक्षुःश्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशन्दा सूत्रस्वरूपं इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, 'वचनभिन्नं' वचनव्यत्ययः, यथा वृक्षावेतौ पुष्पिताः
वि०१ इत्यादि १४, विभक्तिभिन्नं विभक्तिव्यत्ययः, यथेष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गाभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह १६, 'अनभिहितम्' अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं वा वैशेपिकस्य, प्रधानपुरुषाभ्यामभ्यधिक साक्ष्यस्य, चतुःसत्यातिरिक्त शाक्यस्येत्यादि १७, अपदं पद्यविधी पद्ये विधातव्येऽन्यच्छन्दोऽभिधानं, यथाऽऽर्यापदे वैतालीयपदाभिधानं १८, 'स्वभावहीन' यद्वस्तुनः स्वभावतोऽन्यथावचनं, यथा शीतोऽग्निर्मूर्तिमदाकाशमित्यादि १९, 'व्यवहितम्' अन्तर्हितं, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपश्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोषः अतीतादिकालव्यत्ययः, यथा रामो वनं प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः-अस्थानविच्छेदः तदकरणं वा, |२२, 'छविः अलङ्कारविशेषस्तेन शून्यमिति २३, 'समयविरुद्धं च' स्वसिद्धान्तविरुद्धं यथा साझ्यस्यासत् कारणे कार्य सद् | वैशेषिकस्येत्यादि २४, वचनमा निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, 'अर्धापत्तिदोष' यत्रार्थादनिष्टापत्तिः, यथा 'ब्राह्मणो न हन्तव्य' इति, अर्थादब्राह्मणघातापत्तिः २६, 'असमासदोषः समासब्यत्ययः, यत्र वा समासविधौ M ॥३७५॥ सत्यसमासवचनं, यथा राजपुरुषोऽयमित्यत्र तत्पुरुष समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणं यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि २७, 'उपमादोषः' हीनाधिकोपमानाभिधानं, यथा मेरुः सर्षपोपमः, सर्पपो|
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~311