________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८८४], भाष्यं [१५१...]
त्यादि १, 'उपघातजनक' सत्त्वोपघातजनकं, यथा वेदविहिता हिंसा धर्मायेत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसा|| दिवत् , आर आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्र विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते,
इत्येवंभूतं निरर्थकमभिधीयते, डित्यादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकं, तथा दश दाडिमानि पडपूपाः कुण्डमजाजिन पललपिण्डः त्वर कीटिके ! दिशमुदीची, स्पर्शनकस्य पिता प्रतिसीन इत्यादि ४, वचनविघातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं दुहिलं, यथा-'यस्य बुद्धिर्न लिप्येत, हत्वा सर्पमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥ १॥ कलुषं वा दुहिलं, येन पुण्यपापयोः समताऽs|पाद्यते, यथा-'एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः' इत्यादि , 'निःसारं' परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम्-अधिक ८, तैरेव हीनम्-उनम् ९, अथवा हेतूदाहरणाधिकमधिकं, यथाऽनित्यः शब्दोः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम्-ऊनं यथा-अनित्यः शब्दो घटवत् अनित्यः शब्दः कृतकत्वादित्यादि ८-९, शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् , अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, तत्र शब्दपुनरुक्तम्-इन्द्र | इन्द्र इति, अर्थपुनरुक्तम्-इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनं, यथा-पीनो देवदत्तो दिवा न भुले धल-18 वान् पट्विन्द्रियश्च, अर्थादापन्नं रात्रौ भुत इति, तत्र यो ब्रूयात्-दिवा न भुङ्क्ते रात्री भुत इति स पुनरुतमाह १०,16 'व्याहत' यत्र पूर्वेण पर विहन्यते, यथा-'कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणा' मित्यादि ११, 'अयुक्तम् । अनुपपत्तिक्षम, यथा-'तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१॥ इत्यादि |
T
JABERatiny
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~310~