SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८६१], भाष्यं [१५०...] * * * मोहनं मोहः-वितथग्रहः न मोहः अमोह:-अपितधग्रहा, शोधनं-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिा, सत्|जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम्-उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, |परमार्थसम्बोध इत्यर्थः, अतस्मिंस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुदृष्टिरिति, एवमादीनि सम्यग्दर्शनस्य निरुतानीति गाथार्थः ॥ ८६१ ॥ श्रुतसामायिक-IN निरुक्तिप्रदर्शनायाऽऽहअक्खर सन्नी संमं सादियं खलु सपजवसियं च । गमियं अंगपविढं सत्तवि एए सपडिवक्खा ॥ ८६२॥ | व्याख्या-दयं च गाथा पीठे व्याख्यातत्वान्न वित्रियते ॥ देशविरतिसामायिकनिरुक्तिमाह विरयाविरई संवुडमसंखुडे बालपडिए चेव । देसेकसविरई अणुधम्मो अगारंधम्मो य ॥ ८६३ ॥ र व्याख्या-विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः-अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्तौ सा विरताविरतिः, संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् तथा, संवृतासंवृताः-स्थगितास्थगिताः परित्यकापरित्यक्ता इत्यर्थः, एवं वालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरति-14 | गृह्यते, अणुधर्मो बृहत्साधुधर्मापेक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यगाः-वृक्षास्तैः कृतमगारं-गृहं तद्योगादगार:-गृहस्थः तद्धर्मश्चेति गाथार्थः ॥ ८६३ ॥ सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहसामाइयं समइयं सम्मावाओ समास संखें वो। अणवजं च परिण्णा पञ्चक्खाणे य ते अट्ठ॥ ८६४ ॥ Singinrary.org पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: सामायिक शब्दस्य पर्याया: कथानकं सहितेन कथयते ~288~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy