________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [-/गाथा-], नियुक्ति: [८२६], भाष्यं [१५०...]
(४०)
ASSASAR
व्याख्या-तिर्यक्षु' गर्भव्युत्क्रान्तिकेषु संशिष्वनुद्वृत्तः सन् 'त्रिकम्' आद्य सामायिकत्रयमधिकृत्य प्रतिपत्ता प्राक्प्रतिपन्नश्च भवतीत्यध्याहारः, 'चउकं सिया उ उघट्टे' उद्धृत्तस्तु मनुष्यादिष्वायातः 'स्यात्' कदाचिच्चतुष्टयं स्यात् त्रिक स्यात् द्विकमधिकृत्योभयथाऽपि भवतीति, 'मणुएसु अणुबट्टे चउरो ति दुगं तु उबट्टे मनुष्येष्वनुत्तः सन् चत्वारि प्रतिपद्यते प्राक्प्रतिपन्नश्च भवति, त्रीणि द्विक, तुशब्दो विशेषणे, उद्वत्तस्तिर्यग्नारकामरेप्वायातः त्रीणि द्विकं वाऽधिकृत्योभयथाऽपि भवतीति गाथार्थः ॥ ८२६ ॥
देवेसु अणुब्बडे दुगं चउक्कं सिया उ उब्वट्टे । उब्वट्टमाणओ पुण सव्वोऽवि न किंचि पडियज्जे ॥ ८२७ ॥ ब्याख्या-देवेष्वनुद्वत्तः सन् 'द्विकम्' आद्यं सामायिकद्वयमाश्रित्योभयथाऽपि भवतीति क्रिया, 'चउकं सिया उ उबट्टे' त्ति पूर्ववत् , उद्धर्तमानकः पुनरपान्तरालगतौ सर्वोऽप्यमरादिर्न किञ्चित् प्रतिपद्यते, प्राक्प्रतिपन्नस्तु द्वयोर्भवतीति गावार्थः ॥ ८२७ ॥ द्वारम् ॥ आश्रवकरणद्वारप्रतिपादनायाहणीसवमाणो जीवो पडिवज्जइ सोचउण्हमण्णयरं । पुब्वपडिवण्णओ पुण सिय आसवओ वणीसवओ॥८२८॥
व्याख्या-निश्रावयन् यस्मात् सामायिक प्रतिपद्यते, तदावरणं कर्म निर्जरयन्नित्यर्थः, शेषकर्म तु बभन्नपि जीवआत्मा प्रतिपद्यते स चतुर्णामन्यतरत् , पूर्वप्रतिपन्नकः पुनः स्यादानवको बन्धक इत्यर्थः, निःश्रावको वा, वाशब्दस्य व्यवहितः सम्बन्धः, आह-निर्वेष्टनद्वारादस्य को विशेष इतिः, उच्यते, निर्वेष्टनस्य कर्मप्रदेशविसङ्घातरूपत्वात् क्रिया
-
---
-
JAMERahul
Janeioraryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~240~