SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:) अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८२४], भाष्यं [१५०...] आवश्यक हारिभद्रीयवृत्तिः विभागः१ AG असमोहतोऽवि एमेव' ति असमवहतोऽप्येवमेव प्रतिपद्यते स चतुर्णामन्यतरत्, प्राक्प्रतिपन्नश्च भवति, समवहतस्तु केवलिसमुद्घातादिना सप्तविधेन प्रतिपद्यते, किन्तु 'पुवपडिवण्णए भयण' त्ति पूर्वप्रतिपन्न के समवहते विचारयितुमारब्धे भजना सेवना समर्थना कार्या, पूर्वप्रतिपन्नो भवतीत्यर्थः, सप्तविधत्वं पुनः समुद्घातस्य, यथोक्तम्-'केवलि कसायमरणे वेदण वेउवि तेय आहारे । सत्तविह समुग्धातो पन्नत्तो वीयरागेहिं ॥ १॥ इह च पूर्वप्रतिपन्नके भजना, समवहतो हि सामायिकबयस्य त्रयस्य वा पूर्वप्रतिपन्नको भावनीय इतिगाथार्थः ॥ ८२४ ॥ गतं द्वारद्वयं, निर्वेष्टनद्वारप्रतिपादनायाहदग्वेण य भावेण य निविलुतो चउण्हमण्णयरं । नरएस अणुव्वढे दुगं चउक्कं सिया उ उबट्टे ।। ८२५॥ व्याख्या-द्रव्यतो भावतश्च निर्वेष्टयन् चतुर्णामन्यतरत् प्रतिपद्यते प्राक्प्रतिपन्नश्चास्ति, द्रव्यनिर्वेष्टनं कर्मप्रदेशवि| सङ्घातरूपं भावनिर्वेष्टनं क्रोधादिहानिलक्षणं, तत्र सर्वमपि कर्म निवेष्टयंश्चतुष्टयं लभते, विशेषतस्तदावरणं ज्ञानावरणं निर्वेष्टयन् श्रुतसामायिकमाप्नोति मोहनीयं तु शेषत्रयमिति, संवेष्टयंस्त्वनन्तानुवन्ध्यादीन् न प्रतिपद्यते, शेषकर्म त्वङ्गीकृत्योभयथाऽप्यस्ति । द्वारम् । उद्वर्तनाद्वारमधुना-नरकेषु-अधिकरणभूतेष्वनुद्वर्तयन् , तत्रस्थ एवेत्यर्थः, नरकाबेति पाठान्तरं, 'दुर्ग' ति आद्यं सामायिकद्विकं प्रतिपद्यते, तदेव चाधिकृत्य पूर्वप्रतिपन्नो भवति, उद्वृत्तस्तु 'स्यात्' कदाचित् |चतुष्क प्रतिप्रद्यते कदाचित् त्रिक, पूर्वप्रतिपन्नोऽप्यस्त्येवेति गाथार्थः ।। ८२५ ॥ तिरिएसु अणुव्वढे तिगं चउकं सिया उ उव्व।। मणुएमु अणुब्बट्टे चउरो ति दुगं तु उबट्टे ॥८२६ ॥ केवली पायो मरणं वेदमा वैक्रिय तैजस आहारकः । सप्तविधः समुद्धातः प्रजातो वीतरागः ॥1॥ ॥३३९॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: ~239~
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy