________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५४५], भाष्यं [११५...]
CAKACASEX
तु, किंपरिमाणमित्याह-आयोजनान्तरतो' योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम् , अथवा कुर्वन्ति देवा विचित्रं तु, किंभूतम् !-मणिकनकरत्नविचित्रमिति गाथार्थः ॥ ५४५ ॥
वेंटहाई सुरभि जलथलयं दिव्वकुसुमणीहारिं । पइरंति समन्तेणं दसवण्णं कुसुमवासं ॥ ५४६ ॥ व्याख्या-वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्झरि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्ष, भावार्थः सुगमो, नवरं नि रि-प्रबलो गन्धप्रसर इति गाथार्थः॥ ५४६॥ | मणिकणगरपणचित्ते चाउद्दिसिं तोरणे विउव्वंति । सच्छत्तसालभंजियमय रहयचिंधसंठाणे ॥५४७॥
व्याख्या-मणिकनकरनचित्राणि 'चद्दिसित्ति चतसृष्वपि दिक्षु तोरणानि विकुर्वन्ति, किंविशिष्टान्यत आहछत्रं-प्रतीतं सालभजिका:-स्तम्भपुत्तलिकाः 'मकर'त्ति मकरमुखोपलक्षणं ध्वजाः प्रतीताः चिहानि-स्वस्तिकादीनि संस्थानंतद्रचनाविशेष एष, सच्छोभनानि छत्रसालभजिकामकरध्वजचिह्नसंस्थानानि येषु तानि तथोच्यन्ते, एतानि व्यन्तरदेवाः कुर्वन्तीति गाथार्थः ॥ ५४७॥ |तिन्नि य पागारवरे रयणविचित्ते तहिं सुरगणिंदा । मणिकंचणकविसीसगविभूसिए ते विउति ॥ ५४८ ॥
व्याख्या-त्रीश्च प्राकारवरान् रत्नविचित्रान् तत्र सुरगणेन्द्रामणिकाञ्चनकपिशीर्षकविभूषितांस्ते विकुर्वन्तीति, भावार्थः स्पष्टः, उत्तरगाथायां वा व्याख्यास्यति ।। ५४८ ॥ सा चेयम्अभंतर मज्झ बहिं विमाणजोइभवणाहिवकया उ । पागारा तिपिण भवे रयणे कणगे य रयए य ॥५४९ ॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~22~