SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥२३१॥ Jus Educati [भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [ ५४९], भाष्यं [११५...] व्याख्या – अभ्यन्तरे मध्ये च बहिर्विमानज्योतिर्भवनाधिपकृतास्तु आनुपूर्व्या प्राकारास्त्रयो भवन्ति, 'रयणे कणगे य रथए यत्ति रखनेषु भवो रालः रक्तमय इत्यर्थः तं विमानाधिपतयः कुर्वन्ति, कनके भवः कानकः तं ज्योतिर्वासिनः कुर्वन्ति, राजतो- रूप्यमयश्च तं भवनपतयः कुर्वन्ति इति गाथार्थः ॥ ५४९ ॥ | मणिरयणहेमयात्रिय कविसीसा सव्वरयणिया दारा । सव्वरयणामय चिय पडागधयतोरणविचित्ता ॥ ५५० ॥ ४ व्याख्या-मणिरत्नहेममयान्यपि च कपिशीर्षकाणि, तत्र पञ्चवर्णमणिमयानि प्रथमप्राकारे वैमानिकाः, नानारक्षमयानि द्वितीये ज्योतिष्काः, हेममयानि तृतीये भवनपतय इति, तथा सर्वरलमयानि द्वाराणि त एव कुर्वन्ति, तथा सर्वरत्नमयान्येव मूलदलतः पताकाध्वजप्रधानानि तोरणानि विचित्राणि कनकचन्द्रस्वस्तिकादिभिः, अत एव प्रागुक्तं मणिकनकरत्नविचित्रत्वमेतेषामविरुद्धमिति गाथार्थः ॥ ५५० ॥ ततो य समतेणं कालागरुकुंदुरुक्कमीसेणं । गंधेण मणहरेणं धूवघडीओ विब्वैति ॥ ५५९ ॥ व्याख्या - ततश्च समन्ततः कृष्णागरुकुन्दुरुक्कमिश्रेण गन्धेन मनोहारिणा युक्ताः किम् ? -धूपघटिका विकुर्वन्ति त्रिदशा एवेति गाथार्थः ॥ ५५१ ॥ उकुडिसीहणायं कलयलसद्देण सब्बओ सव्वं । तित्थगरपायम्ले करेंति देवा णिवयमाणा ॥ ६५२ ॥ व्याख्या - तत्रोत्कृष्टिसिंहनादं तीर्थकरपादमूले कुर्वन्ति देवा निपतमानाः, उत्कृष्टिः- हर्षविशेषप्रेरितो ध्वनिविशेषः, किंविशिष्टम् !-कलकलशब्देन 'सर्वतः' सर्वासु दिक्षु युक्तं 'सर्वम्' अशेषमिति गाथार्थः ॥ ५५२ ॥ For Purina Pts at Use Only हारिभद्रीयवृत्तिः विभागः ९ ~23~ ॥२३१॥ www.janbrary.org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
SR No.035029
Book TitleSavruttik Aagam Sootraani 1 Part 29 Aavashyak Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages442
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy