________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -, मूलं [- /गाथा-], नियुक्ति: [७९६], भाष्यं [१४९...]
धम् , अक्षरानक्षरादिभेदादनेकविधं चेति, 'चारित्रम्' इति चारित्रसामायिक, तच क्षायिकादि त्रिविध, सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातभेदेन वा पञ्चविधम् , अथवा गृहीताशेषविकल्पं द्विविधम्-अगारसामायिकमनगारसामायिकं च, तथा चाह-'दुविधं चेव चरितं अगारमणगारियं चेव' द्विविधमेव चारित्रं मूलभेदेन, अगा:-वृक्षास्तैः कृतमगारं-गृहं तदस्यास्तीति मतुबूलोपादगार:-गृहस्थस्तस्यै दम्-आगारिकम् , इदं चानेकभेदं, देशविरतेचित्ररूपत्वात् , अनगार:-साधुस्तस्येदम्-आनगारिक चैव । आह-सम्यक्त्वश्रुतसामायिके विहाय चारित्रसामायिकभेदस्य साक्षादभिधानं किमर्थम् ?, उच्यते, अस्मिन् सति तयोनियमेन भाव इति ज्ञापनार्थ, चरमत्वाद्वा यथाऽस्य भेद उक्त एवं शेषयोरपि वाच्य इति ज्ञापनार्थमिति गाथार्थः ॥ साम्प्रतं मूलभाष्यकारः श्रुतसामायिक व्याचिख्यासुस्तस्याध्ययनरूपत्वादाहअज्झयणंपि य तिविहं सुत्ते अत्थे य तदुभए चेव । सेसेमुवि अज्झयणेसु होइ एसेव निजुत्ती ॥ १५० ॥ (भा) - व्याख्या-अध्ययनमपि च त्रिविधं सूत्रविषयमर्थविषयं च तदुभयविषयं चैव, अपिशब्दात् सम्यक्त्वसामायिकमप्यौपशमिकादिभेदात् त्रिविधमिति । प्रक्रान्तोपोद्घात नियुक्तरशेषाध्ययनव्यापितां दर्शयन्नाह-शेपेष्वपि चतुर्विंशतिस्तवादिष्वन्येषु वाऽध्ययनेषु भवति एव नियुक्तिः-उद्देशनिर्देशादिका निरुक्तिपर्यवसानेति । आह-अशेषद्वारपरिसमाप्तावतिदेशो न्याय्यः, अपान्तराले किमर्थमिति?, उच्यते, 'मध्यग्रहणे आद्यन्तयोर्ग्रहणं भवती ति न्यायप्रदर्शनार्थ इति गाथार्थः ॥ द्वारं ॥ अधुना कस्येति द्वारं प्रतिपाद्यते, तत्र यस्य तद् भवति तदभिधित्सयाऽऽह
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~218~