________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८०], भाष्यं [१२४...]
व्याख्या-गङ्गात् द्वैक्रियाः, षडुलूकात् त्रैराशिकानामुत्पत्तिः, स्थविराश्च गोष्ठामाहिलाः स्पृष्टमबद्ध प्ररूपयन्ति, कर्मेति गम्यते, 'पुट्ठमबद्धं परविंसु' वा पाठान्तरं, ततश्चाबद्धिका गोष्ठामाहिलात् सञ्जाता इति गाथार्थः ॥ साम्प्रतं येषु पुरेपूत्पन्नास्त एते निह्नवास्तानि प्रतिपादयन्नाह--
सावत्थी उसभपुर सेयविया मिहिल उल्लुगातीरं । पुरिमंतरंजि दसपुर रहवीरपुरं च नगराई ॥ ७८१ ॥ व्याख्या-श्रावस्ती ऋषभपुरं श्वेतविका मिथिला, उल्लुकातीर पुरमन्तरजि दशपुरं रथवीरपुरं च नगराणि, निहवानां यथायोगं प्रभवस्थानानि, वक्ष्यमाणभिन्नद्रव्यलिङ्गमिथ्यादृष्टिचोटिकप्रभवस्थानरधवीरपुरोपन्यासो लाघवार्थ इति गाथार्थः ।। भगवतः समुपजातकेवलस्य परिनिर्वृतस्य च का कियता कालेन निवः समुत्पन्न इति प्रतिपादयन्नाहचोद्दस सोलस वासा चोद्दसवीमुत्तरा य दोण्णि सया। अट्ठावीसा य दुवे पंचेव सपा उ चोयाला ।। ७८२॥
ब्याख्या-चतुर्दशषोडशवर्षाणि तथा 'चोदसवीसुत्तरा य दोन्नि सय त्ति चतुर्दशाधिके द्वे शते विंशत्युत्तरे च द्वे शते, वर्षाणामिति गम्यते, तथाऽष्टाविंशत्यधिके च द्वे शते, तथा पश्चैव शतानि चतुश्चत्वारिंशदधिकानि, इति गाथार्थः॥ अवयवार्थ तु भाष्यकार एव प्रतिपादयिष्यति ॥ पंच सया चुलसीया छच्चेव सया णवोत्तरा होति । णाणुप्पत्तीय दुवे उप्पण्णा णिव्वुए सेसा ॥ ७८३ ॥ | व्याख्या-पञ्च शतानि चतुरशीत्यधिकानि षट् चैव शतानि नवोत्तराणि भवन्ति । ज्ञानोत्पत्तेरारभ्य चतुर्दशषोडशवर्षाणि यावदतिक्रान्तानि तावदत्रान्तरे द्वावाद्यावुत्पन्नौ, उत्पन्ना निवृत्ते भगवति, यथोक्तकाले चातिक्रान्ते शेषाः
T
laneiorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~184~