________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [७२७], भाष्यं [१२३...]
व्याख्या - निर्द्धमकं च ग्रामं महिलास्तूपं च कूपतटमित्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काका: 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्टेत्यनुवर्त्तत इति गाथार्थः । अप्रशस्त देशकालस्वरूपाभिधित्सयाऽऽहनिम्माच्छियं महं पायो णिही खज्जगावणो सुष्णो। जा यंगणे पसुत्ता पउत्थवइया य मत्ता व ॥ ७२८ ॥ दारं ॥
व्याख्या - निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः, अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदना| कुलीकृतत्वात्तस्या इति गाथार्थः । दारं । इदानीं कालकाल: प्रतिपाद्यते - कालस्य - सत्त्वस्य श्वादेः कालो- मरणं कालकालः, अमुमेवार्थे प्रतिपादयन्नाह -
काले कओ कालो अम्हं सज्झायदेसकालंमि । तो तेण हओ कालो अकालकालं करेंतेणं ॥ ७२९ ।। व्याख्या- 'कालेने' शुना 'कृतः कालः कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः कालः- भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्तावे 'काल' मरणं कुर्वतेति गाथार्थः । द्वारम् । इदानीं प्रमाणकालः प्रतिपाद्यतेतत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्त्ती विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह च दुविहो पमाणकालो दिवसपमाणं च होइ राई अ । चउपोरिसिओ दिवसो राती चडपोरिसी चैव ॥ ७३० ॥ व्याख्या - द्विविधः प्रमाणकाल:- दिवसप्रमाणं च भवति रात्रिश्च चतुष्पौरुषिकी दिवसः रात्रिश्चतुष्पौरुष्येव ततश्च
For Fasten
www.laincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~110~