________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], -----------------------
---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [२,३]
दीप अनुक्रम [२,३]
दीपा जम्बूद्वीपादारभ्य द्विगुणरविष्कम्भायामपरिधयः, ततः शेषद्वीपसमुद्रापेक्षयाऽयं लघुरिति, दीर्घत्वं प्राकृतत्वात्, अनेन सामान्यतः प्रमाणमभिहितं, विशेषतस्त्वायामादिगतं प्रमाणमने वक्ष्यति, अत्र विशेषप्रमाणमवसरप्राप्तमपि यन्नोकं तत्सूत्रकाराणां विचित्रा प्रवृत्तिरिति, तथा वृत्तः, स च शुपिरवृत्तोऽपि स्याद् अत आह-'तैलापूपसंस्थानसं-15 |स्थितः' तैलेन पकोऽपूपस्तैलापूपः, तैलेन हि पक्कोऽपूपः प्रायः परिपूर्णवृत्तो भवति न घृतपक्क इति तैलविशेषणं, तस्येव | यत्संस्थानं तेन संस्थितः, अत्र तैलादित्वाल्लकारस्य द्वित्वं, तथा वृत्तो रथचक्रबालसंस्थानसंस्थितः, रथस्य-अवयवे | समुदायोपचारात् रथाङ्गस्य चक्रस्य चक्रवालं-मण्डलं तस्येव संस्थानेन संस्थितः, अथवा चकवालं-मण्डलं मण्डलत्व-11 धर्मयोगाच रथचक्रमपि रथचक्रवालं शेष प्राग्वत्, एवं वृत्तः 'पुष्करकर्णिकासंस्थानसंस्थितः' पुष्करकर्णिका-पनवी-110
जकोशः कमलमध्यभाग इतियावत , वृत्तः परिपूर्णचन्द्रसंस्थानसंस्थितः प्राग्वत् पदद्वयं भावनीर्य, एकेनेव चरितार्थंक-18 Iत्वेऽपि नानादेशजविनेयानां क्षयोपशमवैचित्र्यात् कस्यचित् किञ्चिद्वोधकमित्युपमापदनानात्वं, अत एव प्रत्युपमापदं
| योज्यमानत्वात् वृत्तपदस्य न पौनरुक्त्यशङ्कमऽपि, एतेन संस्थानमुक्तं ३ । अथ सामान्यतः प्रागुक्तं प्रमाणं विशेषतो
निर्वक्तुमाह-एक योजनशतसहस्र, प्रमाणाङ्गलनिष्पन्नं योजनलक्षमित्यर्थः आयामविष्कम्भेन' अत्र च समाहारद्वन्द-18 र स्तेन क्लीवे एकवद्भावः, आयामविष्कम्भाभ्यामित्यर्थः, अत्राह परः-जम्बूद्वीपस्य योजनलक्षं प्रमाणमुक्तं तच्च पूर्वप|श्चिमयोर्जगतीमूलविष्कम्भसत्कद्वादशद्वादशयोजनक्षेपे चतुर्विशत्यधिकं भवति, तथा(च) यथोकं मान विरुध्यत इति,
pawaragand982000
0092892
जम्बूद्वीपस्य स्थानादिः
~48~