SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----------------------- ---------- मूलं [२-३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: ececes प्रत सूत्रांक [२,३] दीप | हनदहनसमर्थतया ज्वलितं तपो-धर्मध्यानादि यस्य स तथा, तथा तत तपो येन स तथा, एवं हि तेन तप्तं तपो येन | सर्वाण्यशुमानि कर्माणि भस्मसात्कृतानीति, तथा महत्-प्रशस्तमाअंसादिदोषरहित्त्वात् तपो यस्य स तथा, तथा उदार:प्रधानः, अथवा 'ओरालो' भीष्मः, उग्रादि विशेषणविशिष्टतपःकरणतः पार्थस्थानामल्यसत्त्वानां भयानक इत्यर्थः, तथा घोरो-निर्पणः, परीपहेन्द्रियादिरिपुगणविनाशनमाश्रित्य निर्देय इत्यर्थः, अन्ये तु आत्मनिरपेक्ष घोरमाहुः, तथा| घोरा-इतरैर्दुरनुचरा गुणा:-मूलगुणादयो यस्य स तथा, तथा घोरस्तपोभिस्तपस्वी, तथा घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, उच्छूढ-उज्झितं संस्कारपरित्यागात् शरीरं येन स तथा, सङ्क्षि मा-शरीरान्तर्गतत्वेन इस्वतां गता विपुला-विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्याA विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, चतुर्दश्च पूर्वाणि विद्यन्ते यस्य स तथा, तेन तेषां रचि तत्वात् , अनेन तस्य श्रुतकेवेलितामाह, स चावधिज्ञानादिविकलोऽपि स्यादत आह-'चतुर्ज्ञानोपगतः' मतिश्रुतावधि18| मनःपर्यायरूपज्ञानचतुष्कसमन्वित इत्यर्थः, उक्तविशेषणद्वयकलितोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्दशपूर्वविदां पटूस्थानपतितत्वेन श्रवणात् , अत आह-सर्वे च ते अक्षरसन्निपाताच-अक्षरसंयोगास्ते ज्ञेयतया सन्ति 18| यस्य स तथा, किमुक्तं भवति !-या काचिजगति पदानुपूर्वी वाक्यानुपूर्वी वा सम्भवति ताः सर्वा अपि जानाति, अथवा अय्याणि-श्रुतिसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं शीलमस्येति स तथा, एवंगुणविशिष्टो भगवान् poectsesesesestaeoececestaes अनुक्रम [२,३] Cassesses इन्द्रभूति गौतमस्य वर्णनं- मूलं एवं परिभाषा सहितं ~42
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy