SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक |[३९-४०] दीप अनुक्रम [५२-५३] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [३९-४०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः JEbenicim णमित्यादि, सर्व प्राग्यत्, अवसर्पिणीचतुर्थारकसदृशत्वमुत्सर्पिणीतृतीयारकस्येति तत्सादृश्यं प्रकटयन्नाह - 'तीसे णमित्यादि, प्रायः प्राग्व्याख्यातार्थं तीर्थङ्करास्त्रयोविंशतिः पद्मनाभादयः चतुर्विंशतितमस्य भद्रकृन्नान्नश्चतुर्थारके उत्पत्स्यमानत्वात्, एकादश चक्रवर्त्तिनो भरतादयो वीरचरित्रे तु दीर्घदन्तादयः द्वादशस्यारिष्ठनाम्नश्चतुर्धारके एव भावित्वात् नव बलदेवा जयन्तादयः, नव वासुदेवा नन्यादयः, यन्तु तिलकादयः प्रतिविष्णवो नेहोकास्तत्र पूर्वोक एव हेतुरवसातव्यः समुत्पत्स्यन्ते । गतस्तृतीयारक उत्सर्पिण्यामथ चतुर्थः- 'ती से ण'मित्यादि, तस्या समायां सागरो पमकोटाकोव्या द्विचत्वारिंशता वर्षसहस्रैरूनितया काले व्यतिक्रान्ते अनन्तैर्वर्णपर्यवैर्यावद्वर्द्धमानोऽत्र प्रस्तावे सुषम| दुष्पमानाना समा कालः उत्सर्पिणीचतुर्धारक लक्षणः प्रतिपत्स्यते, 'सा ण'मित्यादि 'सा' समा त्रिधा विभक्ष्यति - | विभागं प्राप्स्यति, प्रथमस्त्रिभागः मध्यमस्त्रिभागः पश्चिमस्त्रिभागश्चेति, तत्राद्यत्रिभागस्वरूपमाह - 'तीसे ण' मित्यादि, तस्यां समायां भदन्त ! प्रथमे त्रिभागे भरतस्य वर्षस्य कीदशक आकारभावप्रत्यवतारो भविष्यति ?, गौतम ! बहुसमरमणीयो यावद्भविष्यति यावत्करणात् पूर्णोऽपि भूमिवर्णकगमो ग्राह्यः मनुजप्रश्नमपि मनसिकृत्य भगवान् | स्वयमेवाह - 'मणुआण' मित्यादि, मनुजानां तत्कालीनानां या अवसर्पिण्यास्तृतीयारकस्य पश्चिमत्रिभागे वक्तव्यता सा अत्रापि भणितव्या, अत्रैवापवादसूत्रमाह- कीदृशी च सा वक्तव्यतेत्याह- कुलकरान् वर्जयतीति कुलकरवर्जा, 'वृजेण वर्जने' इत्यस्याचि प्रत्यये रूपसिद्धिः, एवं ऋषभस्वामिवर्जाः, अवसर्पिण्यां कुलकरसम्पाद्यानां दण्डनीत्यादी Fur Fate & Pune Cy ~365~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy